SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४०७ जातेः सामान्यस्य व्याप्तौ स्सात् स्यात् । अस्यां सेनायां सर्वं शस्त्रमग्निसात् करोति दैवम् , एवम् अग्निसाद् भवति , अग्निसात् स्यात् , अग्निसात् सम्पद्यते ।।१३१॥ तत्राऽधीने ।१२।१३२॥ तत्रेति ड्यन्ताद् आयत्तेऽर्थे कृ-भ्वस्ति-सम्पद्योगे स्सात् स्यात् । राजसात् करोति , राजसाद् भवति , राजसात् स्यात् , राजसात् सम्पद्यते ।।१३२।। देये त्रा च ।७।२।१३३॥ ड्यन्ताद् देये आयत्तेऽर्थे कृ-भ्वस्ति-सम्पद्योगे त्रा: स्यात् । देवत्रा करोति द्रव्यम् , देवत्रा भवेत् , स्यात् , सम्पद्यते वा । देय इति किम् ? राजसात् स्याद् राष्ट्रम् ।।१३३।। सप्तमी-द्वितीयाद् देवादिभ्यः ।१२।१३४॥ एभ्यो ङ्यमन्तेभ्यः स्वार्थे वा स्यात् । देवत्रा वसेत् , भवेत् , स्यात् , करोति वा , एवं मनुष्यत्रा ॥१३४|| तीय-शम्ब-बीजात् कृगा कृषौ डाच् ।।२।१३५॥ तीयान्ताच्छम्ब-बीजाभ्यां च कृग्योगे कृषिविषये डाच् स्यात् । द्वितीया करोति , शम्बा करोति , बीजा करोति क्षेत्रम् । कृषाविति किम् ? द्वितीयं पटं करोति ||१३५।। सङ्ख्यादेर्गुणात् ।।२।१३६॥ सङ्ख्याया आद्यवयवात् परो यो गुणस्तदन्तात् कृग्योगे कृषिविषये डाच् स्यात् । द्विगुणा करोति क्षेत्रम् ।।१३६।। समयाद् यापनायाम् ।७।२।१३७॥ अस्मात् कालक्षेपे गम्ये कृग्योगे डाच् स्यात् । समया करोति , कालं क्षिपतीत्यर्थः ॥१३७|| सपत्र-निष्पत्रादतिव्यथने ।।२।१३८॥ आभ्यां कृग्योगेऽतिपीडने गम्ये डाच् स्यात् । सपत्रा करोति मृगम् , निष्पत्रा करोति । अतिव्यथन इति किम् ? सपत्रं करोति तरुं सेकः ॥१३८।। १. जातेः P3 J2 नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy