SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २७ आमुखम् __ अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्य: सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि, विशेषतस्तु इमानत्र वयं संस्मरामः। अत्र नव परिशिष्टानि संयोजितानि । तेषु द्वि-त्राणि परिशिष्टानि पन्यासश्रीदक्षविजयगणिसंपादितात् स्वोपज्ञलघुवृत्तिविभूषितात् श्री सिद्धहेमचन्द्रशब्दानुशासनादत्र संगृहीतानि । परमोपकारिणी परमपूज्या वयोवृद्धा मम माता साध्वीश्रीमनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं महत् साहायकं सर्वैः प्रकारैविधत्ते। मम दिवंगतोऽन्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति। ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यश्च मुनिपुण्डरीकरत्नविजयः मुद्रितप्रारम्भिकपत्रसमूह(प्रुफ)पठन- परिशिष्टविधानादिषु अनेकविधेषु कार्येषु महद् महत् साहायकमनुष्ठितवन्तौ । ___मम मातु: साध्वीश्री मनोहरश्रियः शिष्याया: साध्वीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रिया पाठभेदसंग्रहादिकं प्रभूतं प्रभूतं कार्यं महता महता परिश्रमेण विहितम् । __ पाटणनिवासिनः त्रिक्रमलालात्मजश्रेष्ठिश्रीव्रजलालमहोदयस्य सुपुत्रः मयूरः कोम्प्युटरद्वारा सर्वमिदं महता परिश्रमेण मुद्रितवान् । झींझुवाडावास्तव्य- 'बाबुलाल-कुबेरदास-गांधी' सुपुत्रैरस्य सर्वोऽपि मुद्रणादिव्ययो विहितः। मम मातुः पुण्यनाम्ना संकलितायां माता साध्वीजी श्रीमनोहरश्रीजीजन्मशताब्दीजैनग्रन्थमालायां प्रथमपुष्परूपेण ग्रन्थोऽयं प्रकाश्यत इति मे महानानन्दः । ___ परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शङ्केश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां चरणेषु अनन्तश: प्रणिपातं विधाय येषां परमात्मनां कृपया साहाय्याच्च कार्यमिदं सिद्धं तेषां परमकृपालूनां झींझुवाडानगरे जिनप्रासादे मूलनायकरूपेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy