SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूपितं आमयाद् दीर्घश्व ।७।२।४८॥ अस्माद् मत्वर्थे विन् स्यात् , दीर्घश्चास्य । आमयावी , आमयवान् ।।४८।। स्वान्मिन्नीशे ।७।२।४९॥ स्वाद् मत्वर्थे ईशे मिन् स्यात् , दीर्घश्वास्य । स्वामी , स्ववान् अन्य: ।।४९|| गोः ।२।५०॥ गोर्मत्वर्थे मिन् स्यात् । गोमी , गोमान् ।।५०।। ऊर्जा विन्-वलावस् चान्तः ।७।२।५१॥ ऊर्जा मत्वर्थे विन्-वलौ स्याताम् , तद्योगे चोर्नोऽसन्तः । ऊर्जस्वी , ऊर्जस्वल: , ऊर्वान् ।।५१॥ तमिस्राऽर्णव-ज्योत्स्नाः ।७।२।५२॥ एते मत्वर्थे निपात्या: । तमिस्रा रात्रिः , तमिस्राणि गुहामुखानि , तमस्वान् , अर्णव: समुद्रः , ज्योत्स्ना चन्द्रप्रभा ।।५२।। गुणादिभ्यो यः ।७।२।५३।। एभ्यो मत्वर्थे य: स्यात् । गुण्यो ना , हिम्यो गिरिः , हिमवान् ।।५३।। रूपात् प्रशस्ता-ऽऽहतात् ।७।२।५४॥ प्रशस्तोपाधेराहतोपाधेश्च रूपाद् मत्वर्थे य: स्यात् । रूप्यो गौः , रूप्यं कार्षापणम् , रूपवान् अन्यः ॥५४|| पूर्णमासोऽण् ।७।२।५५॥ मत्वर्थे स्यात् । पौर्णमासी ॥५५॥ गोपूर्वादत इकण् ।७।२।५६॥ ___ गोपूर्वाददन्ताद् मत्वर्थे इकण् स्यात् । गौशतिक: । अत इति किम् ? गोविंशतिमान् ।।५६|| निष्कादेः शत-सहस्रात् ।७।२।५७॥ निष्काद्यवयवात् परं यत् शतं सहस्रं च तदन्ताद् मत्वर्थे इकण् स्यात् । नैष्कशतिक: , नैष्कसहस्रिकः । आदेरिति किम् ? स्वर्णनिष्कशतमस्यास्ति ।।५७|| एकादेः कर्मधारयात् ।७।२।५८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy