SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३८६ स्वोपज्ञलघुवृत्तिविभूषितं ___ एतौ निपात्येते । उपत्यका गिर्यासन्ना भू: , अधित्यका पर्वताऽधिरूढा भूः ॥१३१|| अवेः संघात-विस्तारे कट-पटम् ।७।१।१३२॥ __ अवेरर्थात् षष्ठयन्तात् संघाते विस्तारे चार्थे यथासङ्खयं कट-पटौ स्याताम् । अविकट: संघात: , अविपटो विस्तारः ।।१३२।। पशुभ्यः स्थाने गोष्ठः ।।१।१३३॥ पश्वर्थेभ्य: षष्ठयन्तेभ्य: स्थानेऽर्थे गोष्ठः स्यात्। गोगोष्ठम् , अश्वगोष्ठम्॥१३३|| द्वित्वे गोयुगः ।७।१।१३४॥ पश्वर्थेभ्यस्तस्य द्वित्वेऽर्थेऽयं स्यात् । गोगोयुगम् ॥१३४।। षट्त्वे षड्गवः ।।१।१३५।। पश्वर्थेभ्यस्तस्य षट्त्वेऽयं स्यात् । हस्तिषङ्गवम् ।।१३५।। तिलादिभ्यः स्नेहे तैलः ।७।१।१३६॥ एभ्यस्तस्य स्नेहेऽर्थे तैल: स्यात् । तिलतैलम् , सर्षपतैलम् ।।१३६।। तत्र घटते कर्मणष्ठः ।७१।१३७॥ तत्रेति ड्यन्तात् कर्मशब्दाद् घटते इत्यर्थे ठ: स्यात् । कर्मठ: ।।१३७|| तदस्य सञ्जातं तारकादिभ्य इतः ।।१।१३८॥ तदिति स्यन्तेभ्य एभ्योऽस्येति षष्ठ्यर्थे इत: स्यात् , स्यन्तं सञ्जातं चेत् । तारकितं नमः , पुष्पितस्तरुः ॥१३८॥ गर्भादप्राणिनि ।११।१३९।। गर्भात् तदस्य सआतमित्यर्थे इत: स्यात् , न तु प्राणिनि । गर्भितो व्रीहि: ||१३९।। प्रमाणान्मात्रट् ।७१।१४०॥ स्यन्तात् प्रमाणार्थात् षष्ठ्यर्थे मात्रट् स्यात् । आयाम: प्रमाणम् । जानुमात्रं जलम् , तन्मात्री भूः ॥१४०।। हस्ति-पुरुषाद् वाऽण् ।७।१।१४१॥ स्यन्ताभ्यां प्रमाणार्थाभ्यामाभ्यां षष्ठ्यर्थेऽण्वा स्यात्। हास्तिनम् , हस्तिमात्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy