SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ३८३ अनुग्वलम् ।७२१०२॥ अस्मादमन्तादलङ्गामिनि ईन: स्यात् । अनुगवीनो गोपः ||१०२।। अध्वानं येनौ ।७।१।१०३॥ अस्मादमन्तादलङ्गामिनि येनौ स्याताम् । अध्वन्य: , अध्वनीनः ॥१०३।। अभ्यमित्रमीयश्च ।७।१।१०४॥ अस्मादमन्तादलङ्गामिनि ईयो येनौ च स्याताम् । अभ्यमित्रीय: , अभ्यमित्र्य: , अभ्यमित्रीण: ॥१०४।। समांसमीना-ऽद्यश्वीना-ऽद्यप्रातीना-ऽऽगवीन-साप्तपदीनम् । ७१।१०५॥ एते ईनान्ता निपात्या: , साप्तपदीनस्त्वीनञन्तः । समांसमीना गौः , अद्यश्वीना गौः , अद्यप्रातीनो लाभः , आगवीन: कर्मकृत् , साप्तपदीनं सख्यम् ।।१०५।। ___ अषडक्षा-ऽऽशितंग्वलङ्कर्मा-ऽलंपुरुषादीनः ।७।१।१०६॥ एभ्य: स्वार्थे ईन: स्यात् । अषडक्षीणो मन्त्रः , आशितंगवीनमरण्यम् , अलङ्कर्मीण: , अलंपुरुषीण: ।।१०६।। अदिस्त्रियां वाऽश्चः ।७।१।१०७॥ अञ्चत्यन्तात् स्वार्थे ईनो वा स्यात् , न चेत् स दिशि स्त्रियाम् । प्राचीनम् , प्राक् ; प्राचीना शाखा , प्राची । अदितियामिति किम् ? प्राची दिक् ॥१०७|| तस्य तुल्ये कः संज्ञा-प्रतिकृत्योः ७४११०८॥ तस्येति षष्ठयन्तात् तुल्येऽर्थे कः स्यात् , संज्ञायां प्रतिकृतौ च विषये । अश्वक: , अश्वकं रूपम् ।।१०८।। न नृ-पूजार्थ-ध्वज-चित्रे ११०९॥ नरि पूजार्थे ध्वजे चित्रकर्मणि चार्थे को न स्यात् । चञ्चा ना , अर्हन् , ध्वजे सिंहः , चित्रे भीमः ॥१०९।। अपण्ये जीवने।७।११०॥ जीव्यते येन तस्मिन् पण्यवर्जे को न स्यात् । शिवः । अपण्य इति किम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy