SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् प्राणिजात्यर्थाद् वयोऽर्थाच्च तस्य भावे कर्मणि चाऽञ् स्यात् । आश्वम्, अश्वत्वम् , अश्वता ; कौमारम्, कुमारत्वम्, कुमारता ||६६ || युवादेरण् |७|१|६७ || एभ्यस्तस्य भावे कर्मणि चाऽण् स्यात् । यौवनम् युवत्वम् युवता ; स्थाविरम्, स्थविरत्वम् स्थविरता ||६७ || हायनान्तात् |७|१|६८॥ , , अस्मात् तस्य भावे कर्मणि चाऽण् स्यात् । द्वैहायनम् द्विहायनत्वम्, द्विहायनता ||६८|| " " य्वृवर्णाल्लघ्वादेः | ७|१|६९ ॥ लघुरादिः समीपो येषामि उ ऋवर्णानां तदन्तेभ्यस्तस्य भावे कर्मणि चाण् स्यात् । शौचम्, शुचित्वम् शुचिता ; एवं हारीतकम्, पाटवम्, वाधवम् 7 पैत्रम् | लघ्वादेरिति किम् ? पाण्डुत्वम् ||६९|| पुरुष - हृदयादसमासे । ७७ ११७० ॥ " आभ्यामसमासविषयाभ्यां तस्य भावे कर्मणि चाऽण् स्यात् । पौरुषम्, पुरुषत्वम् पुरुषता एवं हार्दम् | असमास इति किम् ? परमपुरुषत्वम्, परमपौरुषमिति मा भूत् ॥७०॥ , Jain Education International " , ३७९ , श्रोत्रियाद् यलुक् च | ७|१|७१ ॥ अस्मात् तस्य भावे कर्मणि चाऽण् स्यात्, तद्योगे च यस्य लुक् । श्रौत्रम् श्रोत्रियत्वम्, श्रोत्रियता, श्रीत्रियकम् ॥७१ || For Private & Personal Use Only योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ् | ७|१|७२ ॥ , त्र्यादीनामन्त्यमुत्तमम्, तत्समीपमुपोत्तमम्, तद् गुरुर्यस्य तस्माद् युपान्त्यात् सुप्रख्यवर्णात् तस्य भावे कर्मणि चाऽकञ् स्यात् । रामणीयकम् रमणीयत्वम् रमणीयता ; एवम् आचार्यकम् । गुरूपोत्तमादिति किम् ? क्षत्रियत्वम्, कायत्वम् | असुप्रख्यादिति किम् ? सुप्रख्यत्वम् सौख्यम् ॥७२॥ चौरादेः | ७|१|७३|| एभ्यस्तस्य भावे कर्मणि चाकञ् स्यात् । चौरिका, चोरत्वम्, चोरता १. चौरादेः J1 पा२ || २. चौरत्वम्, चौरता J1 पार ॥ www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy