SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् द्वित्रिपूर्वो यः शाणस्तदन्ताद् द्विगोरार्हदर्थे या - sणौ वा स्याताम् । द्विशाण्यम् , द्वैशाणम् ; द्विशाणम्, त्रिशाण्यम्, त्रैशाणम्, त्रिशाणम् || १४७ || पण-पाद-माषाद् यः | ६|४|१४८ || पणाद्यन्ताद् द्विगोराऽर्हदर्थे यः स्यात् । द्विपण्यम्, द्विपाद्यम्, अध्यर्धमाष्यम् ।। १४८।। खारी - काकणीभ्यः कच् |६|४|१४९ ॥ एतदन्ताद् द्विगोराभ्यां चाऽऽदर्थे कच् स्यात् । द्विखारीकम्, द्विकाकणीकम् खारीकम्, काकणीकम् || १४९|| मूल्यैः क्रीते |६|४|१५०॥ मूल्यार्थाट्टान्तात् क्रीतेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम्, त्रिंशकम् ।। १५० ।। " तस्य वा |६|४|१५१ ॥ तस्येति षष्ठ्यन्ताद् वापेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम् , खारीकम् , ।। १५१ ।। ३६७ वात-पित्त - श्लेष्म - सन्निपाताच्छमन - कोपने | ६ | ४|१५२ ॥ एभ्यः षष्ठ्यन्तेभ्यः शमने कोपने चार्थे यथोक्तमिकण् स्यात् । वातिकम्, पैत्तिकम्, श्लैष्मिकम् सान्निपातिकम् ॥ १५२ ॥ 7 at संयोगोत्पा | ६|४|१५३॥ षष्ठ्यन्ताद् हेतावर्थे यथोक्तं प्रत्ययः स्यात्, चेद् हेतुः संयोग उत्पातो वा । शत्य:, शतिको दातृसंयोग:, सोमग्रहणिको भूमिकम्पः || १५३ || पुत्राद् येयौ |६|४|१५४॥ पुत्रात् षष्ठ्यन्ताद् हेतावर्थे येयौ स्याताम् चेद्धेतुः संयोग उत्पातो वा । पुत्र्यः, पुत्रीयः || १५४|| द्विस्वर-ब्रह्मवर्चसाद् योऽसङ्ख्या परिमाणा-ऽश्वादेः | ६|४|१५५ ॥ संख्या-परिमाणा-ऽश्वादिवर्जात् द्विस्वराट् ब्रह्मवर्चसाच्च षष्ठयन्ताद् हेतौ संयोगे उत्पाते वा यः स्यात् । धन्यः ब्रह्मवर्चस्यः । संख्यादिवर्जनं किम् ? पञ्चकः १. त्रिपाद्यम् P2 विना || Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy