SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । द्विवर्षः , द्विवर्षीण: , द्विवार्षिक: ।।१११।। प्राणिनि भूते ।६।४।११२॥ कालार्थवर्षान्ताद् द्विगोभूते प्राणिन्यर्थे अ: स्यात् । द्विवर्षों वत्सः । प्राणिनीति किम् ? द्विवर्षः , द्विवर्षीण: , द्विवार्षिक: सरकः ।।११२।। मासाद् वयसि यः ।६।४।११३॥ मासान्ताद् द्विगोभूतेऽर्थे य: स्यात् , वयसि गम्ये । द्विमास्य: शिशुः । वयसीति किम् ? द्वैमासिको व्याधिः ।।११३।। ईनञ् च ।६।४।११४॥ मासाद् भूतेऽर्थे ईनञ् यश्च स्यात् , वयसि गम्ये । मासीनः , मास्यः शिशु: ॥११४|| षण्मासाद् य-यणिकण् ।६।४।११५॥ अस्मात् कालार्थाद् भूतेऽर्थे एते स्यु: , वयसि गम्ये । षण्मास्य: , षाण्मास्यः , पाण्मासिक: शिशुः ।।११५।। सोऽस्य ब्रह्मचर्य-तद्वतोः ।६।४।११६॥ स इति प्रथमान्तात् कालार्थादस्येति षष्ठ्यर्थे , ब्रह्मचर्ये ब्रह्मचारिणि चेकण् स्यात् । मासिकं ब्रह्मचर्यम् , मासिकस्तद्वान् ॥११६।। प्रयोजनम् ।६।४।११७॥ प्रथमान्तात् षष्ठ्यर्थे इकण् स्यात् , प्रथमान्तं चेत् प्रयोजनम् । जैनमहिकं देवागमनम् ॥११७|| एकागाराच्चौरे ।६।४।११८॥ अस्मात् तदस्य प्रयोजनमिति विषये चौरेऽर्थे इकण् स्यात् । ऐकागारिक: ॥११८|| चूडादिभ्योऽण् ।६।४।११९॥ एभ्यस्तदस्य प्रयोजनमिति विषयेऽण् स्यात् । चौडं श्राद्धम् ।।११९।। विशाखा-ऽषाढान्मन्थ-दण्डे ।६।४।१२०॥ आभ्यां तदस्य प्रयोजनमिति विषये यथासंख्यं मन्थे दण्डे चाऽर्थेऽण् स्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy