SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३४५ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अदेवासुरादिभ्यो वैरे ।६।३।१६४॥ देवासुरादिवर्जाद् द्वन्द्वात् तस्येदमर्थे वैरे अकल् स्यात् । बाभ्रवशालङ्कायनिका । अदेवादीति किम् ? दैवाऽसुरम् , राक्षोऽसुरम् ।।१६४|| नटान्नृत्ते ज्यः ।६।३।१६५॥ नटात् तस्येदमर्थे नृत्ते ज्य: स्यात् । नाटयम् ।।१६५।। छन्दोगौक्त्थिक-याज्ञिक-बढचाच धर्मा-ऽऽम्नाय-संघे।६।३।१६६।। एभ्यो नटाच तस्येदमर्थे धर्मादौ ज्य: स्यात् । छान्दोग्यं धर्मादि , औक्त्थिक्यम् , याज्ञिक्यम् , बाढच्यम् , नाट्यम् ।।१६६।। आथर्वणिकादणिकलुक् च ।६।३।१६७॥ अस्मात् तस्येदमर्थे धर्मादौ अण् स्यात् , इकलुक् च । आथर्वणः ।।१६७|| चरणादकञ् ।६।३।१६८॥ चरणः कठादिः , तदर्थात् तस्येदमर्थे धर्मादावकञ् स्यात् । काठको धर्मादिः , चारककः ॥१६८|| गोत्राददण्डमाणव-शिष्ये ।६।३।१६९॥ गोत्रार्थात् तस्येदमर्थे दण्डमाणव-शिष्यवर्जेऽकञ् स्यात् । औपगवकम् । अदण्डेत्यादि किम् ? काण्वा दण्डमाणवा: शिष्या वा ।।१६९।। रैवतिकादेरीयः ।६।३।१७०॥ एभ्यो गोत्राऽर्थेभ्यस्तस्येदंमर्थे ईय: स्यात् । रैवतिकीया: शिष्या: , गौरग्रीवीयं शकटम् ।।१७०॥ कौपिजल-हास्तिपदादण् ।६।३।१७१॥ आभ्यां गोत्रार्थाभ्यां तस्येदमर्थेऽण् स्यात् । कौपिञ्जला: शिष्या: , हास्तिपदा: ॥१७१|| सङ्घ-घोषा-ऽङ्क-लक्षणेऽञ्-यजिञः ।६।३।१७२।। एतदन्ताद् गोत्रार्थात् तस्येदमर्थे सङ्घादावण स्यात् । बैदः सङ्घादिः , बैदं लक्षणम् , एवं गार्गः , गार्गम् , दाक्षः , दाक्षम् ।।१७२।। १. दमित्यर्थे J2 ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy