SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् षात्वणत्विकम् । प्रायोग्रहणात् सांहितम् || १४३ || ऋगृद्-द्विस्वर-यागेभ्यः । ६।३।१४४॥ ऋच ऋदन्ताद् द्विस्वराद् यागार्थेभ्यश्च ग्रन्थवृत्तिभ्यस्तस्य व्याख्याने तत्र भवे चेकण् स्यात् । आर्चिकम् चातुर्होतृकम्, आङ्गिकम्, राजसूयकम् ॥ १४४ ॥ ऋपेरध्याये | ६ | ३ | १४५ ॥ , ऋष्यर्थाद् ग्रन्थवृत्तेस्तस्य व्याख्याने तत्र भवे चाऽध्याये इकण् स्यात् । वाशिष्ठिकोऽध्यायः । अध्याय इति किम् ? वाशिष्ठी ऋक् ॥ १४५ ॥ पुरोडाश-पौरोडाशादिकेकटी | ६ | ३ | १४६ || " आभ्यां ग्रन्थार्थाभ्यां तस्य व्याख्याने तत्र भवे चेक इकट् च स्यात् । पुरोडाशिका पुरोडाशिकी ; पौरोडाशिका, पौरोडाशिकी ॥ १४६ ॥ छन्दसो यः | ६ | ३|१४७॥ " अस्माद् ग्रन्थार्थात् तस्य व्याख्याने तत्र भवे च यः स्यात् । छन्दस्यः || १४७|| शिक्षादेश्वाण | ६ |३|१४८ ॥ ३४३ एभ्यो ग्रन्थार्थेभ्यः छन्दसश्च तस्य व्याख्याने तत्र भवे चाऽण् स्यात् । शैक्षः आर्गयनः छान्दसः || १४८ || तत आग | ६ | ३ | १४९ ॥ 7 ।। १५१ ।। तत इति पञ्चम्यन्ताद् आगतेऽर्थे यथाविहितमण्- एयणादयः स्युः । स्रौघ्नः गव्यः, नादेयः, ग्राम्यः || १४९|| विद्या - योनिसम्बन्धादकञ् |६|३|१५०॥ विद्याकृतो योनिकृतश्च सम्बन्धो येषां तदर्थात् पञ्चम्यन्तादाऽऽगतेऽर्थेऽकञ् स्यात् । आचार्यकम् पैतामहकम् ॥ १५०॥ पितुर्यो वा । ६।३।१५१ ॥ पितुर्योनिसम्बन्धार्थात् पञ्चम्यन्तादागते यो वा स्यात् । पित्र्यम्, पैतृकम् . Jain Education International ऋत इण् । ६।३।१५२।। ऋदन्ताद् विद्या-योनिसम्बन्धार्थात् तत आगते इण् स्यात् । होतृकम्, For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy