SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पद-क्रम-शिक्षा-मीमांसा-साम्नोऽकः ।६।२।१२६॥ एभ्यो वेत्त्यधीते वेत्यर्थे ऽक: स्यात् । पदक: , क्रमक: , शिक्षकः , मीमांसक: , सामकः ।।१२६।। स-सर्वपूर्वात् लुप् ।६।२।१२७॥ सपूर्वात् सर्वपूर्वाच्च वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । सवार्त्तिकः , सर्ववेदः ॥१२७|| __ सङ्ख्याकात् सूत्रे ।६।२।१२८॥ सङ्ख्यायाः परो य: कस्तदन्तात् सूत्रार्थाद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । अष्टका: पाणिनीयाः ।।१२८।। प्रोक्तात् ।६।२।१२९॥ प्रोक्तार्थप्रत्ययान्ताद् वेत्त्यधीते वेत्यर्थे प्रत्ययस्य लुप् स्यात् । गोतमेन प्रोक्तं गौतमम् , तद्वेत्त्यधीते वा गौतमः ॥१२९।। वेदेन्ब्राह्मणमत्रैव ।६।२।१३०॥ प्रोक्तप्रत्ययान्तं वेदवाचि , इन्नन्तं ब्राह्मणवाचि चाऽत्रैव वेत्त्यधीते वेति विषये एव प्रयुज्यते । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठा: , ताण्डयेन प्रोक्तं ब्राह्मणं विदन्त्यधीयते वा ताण्डिनः ॥१३०॥ तेन च्छन्ने रथे।६।२।१३१॥ तेनेति तृतीयान्तात् , छन्ने रथेऽर्थे यथाविहितं प्रत्यय: स्यात् । वास्त्रो रथ: ॥१३॥ पाण्डुकम्बलादिन् ।६।२।१३२॥ अस्मात् टान्तात् छन्ने रथे इन् स्यात् । पाण्डुकम्बली रथः ।।१३२।। दृष्टे साम्नि नाम्नि ।६।२।१३३॥ तेनेति टान्तात् , दृष्टं सामेत्यर्थे यथाविहितं प्रत्यय: स्यात् , संज्ञायाम् । क्रौञ्च साम , कालेयम् ॥१३३।। __गोत्रादकवत् ।६।२।१३४॥ गोत्रवाचिनष्टान्ताद् दृष्टं सामेत्यर्थेऽङ्के इव प्रत्यय: स्यात् । औपगवकं साम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy