SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३२२ स्वोपज्ञलघुवृत्तिविभूषितं देवता ।६।२।१०१॥ देवतार्थात् प्रथमान्तात् षष्ठ्यर्थे यथाविहितं प्रत्यय: स्यात् । जैन: , आग्नेयः , आदित्यः ॥१०१|| __ पैङ्गाक्षीपुत्रादेरीयः ।६।२।१०२॥ एभ्य: साऽस्य देवतेति विषये ईय: स्यात् । पैङ्गाक्षीपुत्रीयम् , तार्णबिन्दवीयं हविः ।।१०२।। शुक्रादियः ।६।२।१०३॥ शुक्रात् साऽस्य देवतेति विषये इय: स्यात् । शुक्रियं हविः ॥१०३।। शतरुद्रात् तौ।६।२।१०४॥ अस्मात् साऽस्य देवतेति विषये ईय इयश्च स्यात् । शतरुद्रीयम् , शतरुद्रियम् ॥१०४॥ ___अपोनपादपानपातस्तृ चाऽऽतः ।६।२।१०५॥ आभ्यां साऽस्य देवतेति विषये इयेयौ स्याताम् , तद्योगे चाऽऽतस्तृ: । अपोनवीयम् , अपोनत्रियम् ; अपान्नप्त्रीयम् , अपाननियम् ॥१०५।। महेन्द्राद् वा ।६।२।१०६॥ अस्मात् साऽस्य देवतेति विषये तौ वा स्याताम् । महेन्द्रीयम् , महेन्द्रियम् , माहेन्द्रं वा हविः ॥१०६।। क-सोमायण आभ्यां साऽस्य देवतेति विषये ट्यण् स्यात् । कायम् , सौम्यं हविः ।।१०७|| द्यावापृथिवी-शुनासीरा-ऽग्नीषोम-मरुत्वद्-वास्तोष्पतिगृहमेधादीय-यौ ।६।२।१०८॥ एभ्य: साऽस्य देवतेति विषये ईय-यौ स्याताम्। द्यावापृथिवीयम् , द्यावापृथिव्यम् ; शुनासीरीयम् , शुनासीर्यम् ; अग्नीषोमीयम् ; अग्नीषोम्यम् ; मरुत्वतीयम् , मरुत्वत्यम् ; वास्तोष्पतीयम् ; वास्तोष्पत्यम् ; गृहमेधीयम् , गृहमेध्यम् ॥१०८|| वाय्वतु-पित्रुषसो यः ।६।२।१०९॥ १. विषये तौ स्याताम् P3 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy