SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं [ द्वितीयः पादः ] रागाट्टो रक्ते | ६ |२| १ | रज्यते येन कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे यथाविहितं प्रत्ययः स्यात् । कौसुम्भं वासः ॥ १ ॥ लाक्षा - रोचनादिकण | ६ |२|२|| ३१२ आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकण् स्यात् । लाक्षिकम्, रौचनिकम् ||२|| शकल - कर्द्दमाद् वा |६|२|३|| आभ्यां टान्ताभ्यां रक्तमित्यर्थे इकण् वा स्यात् । शाकलिकम्, शाकलम् कार्द्दमिकम्, कार्द्दमम् ||३|| नील - पीतादकम् || ६|२|४|| आभ्यां टान्ताभ्यां रक्तमित्यर्थे यथासङ्खयम् अ-कौ स्याताम् । नीलम्, पीतकम् 11811 , उदितगुरोर्भाद् युक्तेऽब्दे | ६ |२|५|| उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्थाट्टान्ताद् युक्तेऽब्दे यथाविहितं प्रत्ययः स्यात् | पौषं वर्षम् ||५|| चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्ते |६|२|६|| चन्द्रेण युक्तं यन्नक्षत्रं तदर्थाट्टान्ताद् युक्ते कालेऽर्थे यथाविहितं प्रत्ययः स्यात् अप्रयुक्ते तु कालार्थे लुप् स्यात् । पौषमहः, अद्य पुष्यः ||६|| द्वन्द्वादीयः | ६ | २|७| चन्द्रयुक्तं यन्नक्षत्रं तदर्थाद् द्वन्द्वाट्टान्ताद् युक्ते कालेऽर्थे ईयः स्यात् । राधानुराधीयमहः ||७|| श्रवणा - ऽश्वत्थान्नाम्न्यः | ६ | २|८|| चन्द्रयुक्तार्थात् श्रवणा-ऽश्वत्थाच्च टान्ताद् युक्ते कालेऽर्थे संज्ञायाम् अः स्यात् | श्रवणा रात्रिः, अश्वत्था पौर्णमासी । नाम्नीति किम् ? श्रावणमहः । अश्वत्थमहः १ 11211 १. आश्वत्थमहः P3सं० मध्य एव विद्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy