SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३०६ स्वोपज्ञलघुवृत्तिविभूषितं > कुलान्तात् कुलाच्चापत्ये य एयकञ् वा स्यात् न चेदसौ समासे । कुल्यः कौलेयकः कुलीनः ; बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः । असमास " 7 इति किम् ? आढयकुलीनः ||९७|| ||९९|| अस्मादपत्ये एयण् वा स्यात् । दौष्कुलेयः, दुष्कुलीनः ॥ ९८ ॥ महाकुलाद् वाऽञीनञौ | ६ | ११९९ ॥ अस्मादपत्येऽञ् ईनञ् च वा स्यात् । माहाकुलः माहाकुलीनः महाकुलीनः , दुष्कुलादेयण् वा | ६ | ११९८ ॥ कुर्वादेः | ६|१|१०० ॥ " एभ्योऽपत्ये ञ्यः स्यात् । कौरव्याः शाङ्कव्याः || १००|| सम्राजः क्षत्रिये | ६ |१|१०१ ॥ , अस्मात् क्षत्रियेऽपत्ये ञ्यः स्यात् । साम्राज्य : क्षत्रियः || १०१ || सेनान्त - कारु - लक्ष्मणादिञ् च | ६|१|१०२ ॥ सेनान्तात् कार्वर्थाल्लक्ष्मणाच्चाऽपत्ये इञ् ञ्यश्च स्यात् । हारिषेणिः, हारिषेण्यः ; तान्तुवायि:, तान्तुवाय्य: ; लाक्ष्मणिः, लाक्ष्मण्यः || १०२|| सुयाम्नः सौवीरेष्वायनिञ् । ६।१।१०३ ॥ " सुयाम्नः सौवीरेषु योऽर्थस्तद्वृत्तेरपत्ये आयनिञ् स्यात् । सौयामायनिः ॥१०३॥ पाण्टाहृति - मिमताण्णव | ६ | १|१०४ ॥ आभ्यां सौवीरेषु योऽर्थस्तद्वृत्तिभ्यामपत्ये ण आयनिञ् च स्यात् । पाण्टाहृतः पाण्टाहृतायनिर्वा सौवीरगोत्रः । एवं मैमतः, मैमतायनिर्वा ॥ १०४ || भागवित्ति-तार्णविन्दवा ssकशापेयानिन्दायामिकण् वा | ६ | १|१०५ ॥ Jain Education International एभ्यः सौवीरेषु यो वृद्धस्तद्वृत्तिभ्यो यूनि इकण् वा स्यात्, निन्दायां गम्यायाम् । भागवित्तिकः, भागवित्तायनो वा जाल्मः ; तार्णविन्दविक:, तार्णविन्दविर्वा आकशापेयिकः, आकशापेयिर्वा ।। १०५ || ; सौयामायनि- यामुन्दायनि वार्ष्यायणेरीयश्च वा | ६ | १|१०६ ॥ १. च J2 P3 मध्ये एवास्ति || - For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy