SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् प्राग्देशार्थस्य यस्य स्वरेष्वादिरेदोद्वा स ईयादौ कार्ये दुः स्यात् । एणीपचनीयः , गोनर्दीयः ॥१०॥ वा-ऽऽद्यात् ।६।१।११॥ वेति आद्यादिति च द्वयमधिकृतं स्यात् , तेन तद्धितप्रसङ्गे पक्षे वाक्यसमासावपि , सूत्रादौ च निर्दिष्टात् प्रत्ययः ।।११।। गोत्रोत्तरपदाद् गोत्रादिवाऽजिह्वाकात्य-हरितकात्यात् ।६।१।१२॥ गोत्रमपत्यम् , जिह्वाकात्य-हरितकात्यवर्जाद् गोत्रप्रत्ययान्तोत्तरपदाद् गोत्रप्रत्ययान्तादिव तद्धितः स्यात् । यथा चारायणीयास्तथा कम्बलचारायणीयाः । अजिह्वेत्यादि किम् ? यथेह ईय:-कातीया: , न तथा जैह्वाकाता: , हारितकाता: ॥१२॥ प्राग जितादण् ।६।१।१३॥ प्राग् जितोक्तेः पादत्रयं यावद् येऽर्थास्तेष्वण् वा स्यात् । औपगवः , माञ्जिष्ठम् ।।१३॥ धनादेः पत्युः ।६।१।१४॥ धनादे: परो य: पतिस्तदन्तात्प्राग्जितीयेऽर्थेऽण् स्यात्। धानपत: , आश्वपत:. ॥१४॥ अनिदम्यणपवादे च दित्यदित्यादित्य-यम-पत्युत्तरपदाभ्यः ।६।१।१५॥ एभ्य: प्राजितीयेऽर्थे इदंवर्जेऽपत्याद्यर्थे योऽणोऽपवादस्तद्विषये च ज्य: स्यात् । दैत्यः , आदित्यः , आदित्य्य: , याम्य: , बार्हस्पत्यः ॥१५।। बहिषष्टीकण् च ।६।१।१६॥ बहिष: प्राग्जितीयेऽर्थे टीकण् ञ्यश्च स्यात् । बाहीक: , बाह्यः ।।१६।। कल्यग्नेरेयण् ।६।१।१७॥ __ आभ्यां प्राजितीयेऽर्थेऽनिदम्यणपवादे च एयण् स्यात् । कालेयम् , आग्नेयम् ॥१७॥ १. इत: परम् J3 मध्ये 'अनिदमीति किम् ? आदित्यस्येदम् आदितीयं मण्डलम्' इत्यधिक: पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy