SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २८६ स्वोपज्ञलघुवृत्तिविभूषितं । ऊर्ध्वं मुहूर्तात् कटं कुर्यात् भवान् , भवता कट: कार्यः , कटं करोतु भवान् , भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसर: कटकरणे ॥३०॥ स्मे पञ्चमी ।५।४॥३१॥ स्मे उपपदे प्रैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकार्थाद् धातो: पञ्चमी स्यात् । ऊर्ध्वं मुहूर्ताद् भवान् कटं करोतु स्म , भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसर: कटकरणे ||३१|| अधीष्टौ ।५।४॥३२॥ स्मे उपपदेऽध्येषणायां गम्यायां पञ्चमी स्यात् । अङ्ग ! स्म विद्वन् ! अणुव्रतानि रक्ष ||३२|| काल-वेला-समये तुम्वाऽवसरे ।५।४॥३३॥ एषूपपदेष्ववसरे गम्ये धातोस्तुम् वा स्यात् । कालो भोक्तुम् , वेला भोक्तुम् , समयो भोक्तुम् , पक्षे-कालो भोक्तव्यस्य । अवसर इति किम् ? काल: पचति भूतानि ॥३३॥ सप्तमी यदि ।५।४।३४॥ __ यच्छब्दप्रयोगे कालादिषूपपदेषु सप्तमी स्यात् । कालो यदधीयीत भवान् , वेला यद् भुञ्जीत , समयो यत् शयीत ॥३४|| शक्तार्हे कृत्याश्च ।५।४।३५॥ शक्तेऽर्हे च कर्तरि गम्ये कृत्या: सप्तमी च स्युः । भवता खलु भारो वाह्यः , उह्येत , भवान् भारं वहेत् , भवान् हि शक्त: ; भवता खलु कन्या वोढव्या , उह्येत , भवान् खलु कन्यां वहेत् , भवानेतदर्हति ।।३५|| णिन् चाऽऽवश्यका-ऽऽधमर्थे ।५।४॥३६॥ अनयोर्गम्ययोः कर्तरि वाच्ये णिन् कृत्याश्च स्युः । कारी , अवश्यंहारी , अवश्यं गेयो गीतस्य , शतं दायी , गेयो गाथानाम् ।।३६।। अर्हे तृच् ।५।४।३७॥ अर्हे कर्तरि वाच्ये तृच् स्यात् । भवान् कन्याया वोढा ॥३७|| आशिष्याशीः-पञ्चम्यौ ।५।४॥३८॥ आशीर्विशिष्टार्थाद् आशी:-पञ्चम्यौ स्याताम्। जीयात् , जयतात् । आशिषीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy