SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।५।३।१३४॥ एते पुनाम्नि करणा-ऽऽधारयोर्घजन्ता निपात्यन्ते । न्याय: , आवाय: , अध्यायः , उद्यावः , संहारः , अवहारः , आधार: , दाराः , जारः ॥१३४|| उदकोऽतोये ।५।३।१३५॥ उत्पूर्वादश्चे: पुनाम्नि करणा-ऽऽधारयोर्घञ् स्यात् , न चेत् तोयविषयो धात्वर्थः । तैलोदङ्कः । अतोय इति किम् ? उदकोदञ्चनः ॥१३५।। _ आनायो जालम् ।५।३।१३६।। आयूर्वात् निय: करणे पुन्नाम्नि जालेऽर्थे घञ् स्यात् । आनायो मत्स्यानाम् ।।१३६।। खनो ड-डरेके-कवक-घं च ।५।३।१३७॥ खनेः पुनाम्नि करणा-ऽऽधारयोरेते , घञ् च स्युः । आख: , आखर: , आखनिकः , आखनिकवकः , आखन: , आखानः ॥१३७|| इ-कि-श्तिव् स्वरूपा-ऽर्थे ।५।३।१३८॥ धातो: स्वरूपेऽर्थे च वाच्ये एते स्युः । भञ्जिः , क्रुधिः , वेत्तिः ; अर्थे यजेरङ्गानि , भुजि: क्रियते , पचति: वृत्तः ।।१३८|| दुः-स्वीपतः कृच्छ्रा-ऽकृच्छ्रार्थे खल् ।५।३।१३९॥ कृच्छ्रवृत्तेर्दुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषद्भ्यां पराद् धातो: खल् स्यात् । दुःशयम् , दुष्करः ; सुशयम् , सुकर: ; ईषच्छयम् , ईषत्करः । कृच्छाकृच्छ्रार्थ इति किम् ? ईषल्लभ्यं धनम् ।।१३९।। व्यर्थे क प्याद् भू-कृगः ।५।३।१४०॥ कृच्छ्रा-ऽकृच्छ्रार्थेभ्यो दुः-स्वीषद्भ्य: पराभ्यां च्च्यर्थवृत्तिकर्तृ-कर्मवाचिभ्यां पराभ्यां यथासङ्ख्यं भू-कृग्भ्यां पर: खल् स्यात् । दुराढ्यंभवम् , स्वायंभवम् , ईषदाढयंभवं भवता ; दुराढ्यंकर: , स्वाढयंकरः , ईषदाढयंकरश्चैत्रस्त्वया । च्व्यर्थ इति किम् ? दुराढयेन भूयते ॥१४०॥ शासू-युधि-दृशि-धृषि-मृषा-ऽऽतोऽनः ।५।३३१४१॥ १. च्छार्थात् J1, पा३,५, बृहद्धृत्तिं च विना ।। २. कृच्छादिति P2, पा४ । कृच्छार्थाभ्यामिति पा२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy