SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २६८ स्वोपज्ञलघुवृत्तिविभूषितं हनोऽन्तर्घना-ऽन्तर्घणौ देशे।५।३॥३४॥ अन्त:पूर्वाद् हन्तेरल् घन्-घणादेशौ च निपात्येते , देशेऽर्थे भावा-ऽकों: । अन्तर्घन: , अन्तर्घणो वा देशः । अन्तर्घातोऽन्यः ॥३४॥ प्रघण-प्रघाणौ गृहांशे ।५।३॥३५॥ प्रपूर्वाद् हन्तेर्गृहांशेऽर्थेऽल् घण्-घाणादेशौ च निपात्येते । प्रघण: , प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥३५|| निघोद्ध-सङ्घोद्धना-ऽपघनोपघ्नं निमित-प्रशस्त-गणा-ऽत्याधानाऽङ्गा-ऽऽसन्नम् ।५।३॥३६॥ हन्तेनिघादयो यथासङ्ख्यं निमिताद्यर्थेषु कृतघत्वादयोऽलन्ता निपात्यन्ते । समन्ततो मितं निमितम् , निघा वृक्षाः ; उद्घः प्रशस्त: , सङ्घः प्राणिसमूह: , अत्याधीयन्ते च्छेदनार्थं कुट्टनार्थं वा काष्ठादीनि यत्र तदत्याधानम् उद्धनः , अपघन: शरीरावयवः , उपघ्न आसन्नः ।।३६।। मूर्ति-निचिता-ऽभ्रे घनः ।५।३॥३७॥ हन्तेर्मूल्दावर्थेऽल् धनादेशश्च निपात्यते । मूर्तिः काठिन्यम् , अभ्रस्य घन: ; निचितं निरन्तरम् , घना: केशाः ; अभ्रं मेघ: , घनः ॥३७|| व्ययो-द्रोः करणे।५।३॥३८॥ एभ्यः पराद् हन्ते: करणेऽल् , घनादेशश्च निपात्यते । विघन: , अयोधनः , द्रुघनः ॥३८॥ स्तम्बाद् घनश्च ।५।३।३९॥ स्तम्बात् पराद् हन्तेरल् , घन-घनादेशौ च निपात्येते , करणे । स्तम्बघ्नो दण्डः , स्तम्बघनो यष्टिः ॥३९।। परेघः ।५।३॥४०॥ परिपूर्वाद् हन्तेरल् , घादेशश्च करणे निपात्यते । परिघोऽर्गला ॥४०॥ ह्वः समाह्वयौ द्यूत-नाम्नोः ।५।३।४१॥ द्यूते नाम्नि चार्थे यथासङ्ख्यं समाङ्पूर्वाद् आङ्पूर्वाच्च ह्वोऽल् , ह्वयादेशश्च १. घणा J1 पा२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy