SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूपितं ख्याते दृश्ये ।५।२८॥ लोकविज्ञाते प्रयोक्तु: शक्यदर्शने भूतानद्यतनेऽर्थे वर्तमानाद्धातोस्तिनी स्यात् । अरुणत् सिद्धराजोऽवन्तीम् । ख्यात इति किम् ? चकार कटम् । दृश्य इति किम् ? जघान कंसं किल वासुदेव: ।।८।। अयदि स्मृत्यर्थे भविष्यन्ती ।५।२।९।। स्मृत्यर्थे धातावुपपदे भूतानद्यतनार्थवृत्तेर्धातोर्भविष्यन्ती स्यात् , अयद्योगे । स्मरसि साधो ! स्वर्गे स्थास्याम: ? | अयदीति किम् ? अभिजानासि मित्र ! यत् कलिङ्गेष्ववसाम ? ||९|| वाऽऽकाक्षायाम् ।५।२।१०॥ स्मृत्यर्थे धातावुपपदे प्रयोक्तुः क्रियान्तराकाङ्क्षायां सत्यां भूतानद्यतनार्थाद् धातोर्भविष्यन्ती वा स्यात् । स्मरसि मित्र ! कश्मीरेषु वत्स्यामोऽवसाम वा , नत्रौदनं भोक्ष्यामहे , अभुमहि वा ॥१०॥ कृतास्मरणा-ऽतिनिह्नवे परोक्षा ।५।२।११॥ कृतस्यापि चित्तव्याक्षेपादिनाऽस्मरणेऽत्यन्तनिह्नवे वा गम्ये भूतानद्यतनार्थाद् धातो: परोक्षा स्यात् । सुप्तोऽहं किल विललापं , नाऽहं कलिङ्गान् जगाम ॥११॥ परोक्षे ।५।२।१२॥ भूतानद्यतने परोक्षार्थाद् धातो: परोक्षा स्यात् । धर्म दिदेश तीर्थकरः ।।१२।। ह-शश्वद्-युगान्तः प्रच्छ्ये हस्तनी च ।५।२।१३॥ हे शश्वति च प्रयुक्ते पञ्चवर्षमध्यप्रच्छ्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद धातोर्खस्तनी-परोक्षे स्याताम् । इति हाकरोत् , इति ह चकार , शश्वदकरोत् , शश्वच्चकार , किमगच्छस्त्वं मथुराम् ? किं जगन्थ त्वं मथुराम् ? ।।१३।। अविवक्षिते ।५।२।१४॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातो स्तिनी स्यात् । अहन् कंसं वासुदेवः ।।१४।। ___वाऽद्यतनी पुराऽऽदौ ।५।२।१५॥ १. विक्षेपा 1 || २. इतः परम्- कलिङ्गेपु त्वया ब्राह्मणो हतः इत्यधिकः पाठ: P1. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy