SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २४५ भृतौ कर्मणः ।५।११०४॥ कर्मशब्दात् कर्मणः परात् कृगो भृतौ गम्यायां ट: स्यात् । कर्मकरी दासी ॥१०४|| क्षेम-प्रिय-मद्र-भद्रात् खा-ऽण् ।५।१।१०५॥ एभ्य: कर्मभ्यः परात् कृगः खा-ऽणौ स्याताम् । क्षेमङ्करः ,क्षेमकार: ; प्रियङ्करः , प्रियकार: ; मद्रङ्करः , मद्रकार ; भद्रङ्करः , भद्रकारः ॥१०५।। मेघर्ति-भया-ऽभयात् खः ।५।१।१०६॥ एभ्य: कर्मभ्य: परात् कृग: ख: स्यात् । मेघङ्करः , ऋतिङ्करः , भयङ्करः , अभयङ्करः ॥१०६।। प्रिय-वशाद् वदः ।५।१।१०७॥ आभ्यां कर्मभ्यां पराद् वद: ख: स्यात् । प्रियंवदः , वशंवदः ॥१०७|| द्विषन्तप-परन्तपौ ।५।१।१०८॥ द्विषत्पराभ्यां कर्मभ्यां पराण्ण्यन्तात् तपे: खो ह्रस्वो द्विषतोऽच्च निपात्यते । द्विषन्तपः , परन्तपः ॥१०८।। परिमाणार्थ-मित-नखात् पचः ।५।१११०९॥ प्रस्थादि-मित-नखेभ्यः कर्मभ्यः परात् पचे: ख: स्यात् । प्रस्थम्पच: , मितम्पच: , नखम्पचः ॥१०९।। कूला-ऽभ्र-करीषात् कषः ।।१।११०॥ एभ्य: कर्मभ्यः कषे: ख: स्यात् । कूलङ्कषा , अभ्रङ्कषा , करीषङ्कषा ॥११०॥ सर्वात् सहश्च ।५।१११११॥ सर्वात् कर्मण: परात् सहे: कषेश्च खः स्यात् । सर्वंसहः , सर्वङ्कषः ॥१११।। भृ-वृ-जि-तृ-तप-दमेश्च नाम्नि ।५।११११२॥ कर्मण: परेभ्य एभ्य: सहश्च संज्ञायां ख: स्यात् । विश्वम्भरा भूः , पतिंवरा कन्या , शत्रुञ्जयोऽद्रिः , रथन्तरं साम , शत्रुन्तपो राजा , बलिन्दम: कृष्णः , शसहो राजा । नाम्नीति किम् ? कुटुम्बभारः ॥११२॥ धारेर्धर्च ।५।१११३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy