SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २४३ ? पाणिघात: , ताडघातः ।।८९।। कुक्ष्यात्मोदराद् भृगः खिः ।५।११९०॥ एभ्य: कर्मभ्य: पराद् भृग: खि: स्यात् । कुक्षिम्भरिः , आत्मम्भरिः , उदरम्भरिः ॥९०|| अर्होऽच् ।५।११९१॥ कर्मण: परादर्हेरच् स्यात् । पूजार्हा साध्वी ॥११॥ धनु-दण्ड-त्सरु-लागला-ऽङ्कुशर्टि-यष्टि-शक्ति-तोमर-घटाद् ग्रहः ।५।१९२॥ एभ्य: कर्मभ्यः पराद् ग्रहोऽच् स्यात् । धनुर्ग्रहः , दण्डग्रहः , त्सरुग्रहः . लाङ्गलग्रहः , अङ्कुशग्रह: , ऋष्टिग्रहः , यष्टिग्रहः , शक्तिग्रहः , तोमरग्रहः , घटग्रहः ।।९२|| सूत्राद् धारणे ।५।१९३॥ सूत्रात् कर्मण: पराद् ग्रहो ग्रहणपूर्वकधारणार्थादच् स्यात् । सूत्रग्रहः प्राज्ञः , सूत्रधारो वा । धारण इति किम् ? सूत्रग्राहः ॥९३|| आयुधादिभ्यो धृगोऽदण्डादेः ।५।११९४॥ दण्डादिवर्जादायुधादेः कर्मणः पराद् धृगोऽच् स्यात् । धनुर्धरः , भूधरः । अदण्डादेरिति किम् ? दण्डधार: , कुण्डधारः ॥९४॥ हगो वयोऽनुद्यमे ।५।११९५॥ कर्मणः पराद् हगो वयस्यनुद्यमे च गम्येऽच् स्यात् । अस्थिहर: श्वशिशुः ; उद्यम: उत्क्षेपणमाकाशे धारणं वा , तदभावे मनोहरा माला । वयोऽनुद्यम इति किम् ? भारहारः ।।१५।। आङः शीले।५।१९६॥ कर्मण: परादाङ्पूर्वाद् हृग: शीले गम्येऽच् स्यात् । पुष्पाहरः । शील इति किम् ? पुष्पाहारः ॥९६॥ दृति-नाथात् पशाविः ।५।१९७॥ १. अस्थिहरः श्वशिशुः । अंशहरो दायादः उद्यमः- P2 । पा१,२,P1,J1,2 मध्ये तु 'अस्थिहरः श्वशिशुः' इत्यस्य स्थाने 'अंशहरो दायादः' इत्येव पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy