SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । २१५ शीङ: शित्ये: स्यात् । शेते ।।१०४।। क्ङिति यि शय् ।४।३।१०५॥ शीङ: डिति यादौ शय् स्यात् । शय्यते , शाशय्यते । ङितीति किम् ? शेयम् ।।१०५॥ ___ उपसर्गाहो ह्रस्वः ।४।३।१०६॥ उपसर्गात् परस्योहतेरूत: क्ङिति यादौ परे ह्रस्व: स्यात् । समुह्यते । उपसर्गादिति किम् ? ऊह्यते । यीत्येव-समूहितम् । ऊ ऊह इति प्रश्लेषः किम् ? आ ऊह्यते ओह्यते , समोह्यते ।।१०६।। आशिषीणः ।४।३।१०७॥ उपसर्गात् परस्येण ईत: क्ङिति यादावाशिषि ह्रस्व: स्यात् । उदियात् । ई इण इति प्रश्लेषः किम् ? आ ईयात्=एयात् , समेयात् ।।१०७|| दीर्घश्वि-यङ्-यक्-क्येषु च ।४।३।१०८॥ एषु यादावाशिषि च दीर्घः स्यात् । शुचीकरोति ; तोष्ट्रयते ; मन्तूयति ; दधीयति , भृशायते , लोहितायति , स्तूयते ; ईयात् ।।१०८।। ऋतो री।४।३।१०९॥ च्च्यादौ परे ऋदन्तस्य ऋत: स्थाने री: स्यात् । पित्रीस्यात् , चेक्रीयते , मात्रीयते , पित्रीयते । ऋत इति किम् ? चेकीर्यते ।।१०९।। रिः श-क्या-ऽऽशीर्ये ।४।३।११०॥ ऋदन्तस्य धातो: ऋत: शे क्ये आशीर्ये च परे रि: स्यात् । व्याप्रियते , क्रियते , ह्रियात् ।।११०॥ ईश्च्वाववर्णस्याऽनव्ययस्य ।४।३।१११॥ अनव्ययस्याऽवर्णान्तस्य च्वौ ई: स्यात् । शुक्लीस्यात् , मालीस्यात् । अनव्ययस्येति किम् ? दिवाभूता रात्रिः ॥१११।। क्यनि ।४।३।११२॥ अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रीयति , मालीयति ।।११२।। क्षुत्-तृड्-गर्धेऽशनायोदन्य-धनायम् ।४।३।११३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy