SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं न दि-स्योः ।४।३।६१॥ ऊपोर्दि-स्योः परयोरौर्न स्यात् । प्रौण्र्णोत् , प्रौर्णोः ॥६१।। तृहः श्नादीत् ।४।३१६२॥ तृहे: नात् परो व्यञ्जनादौ विति परे ईत् स्यात् । तृणेढि ॥२॥ ब्रूतः परादिः ।४।३।६३॥ ब्रुव ऊत: परो व्यञ्जनादौ विति परादिरीत् स्यात् । ब्रवीति । ऊत इति किम् ? आत्थ ।।६३।। यङ्-तु-रु-स्तोर्बहुलम् ।४।३।६४॥ यङ्लुबन्तात् तु-रु-स्तुभ्यश्च परो व्यञ्जनादौ विति ईद् बहुलं परादि: स्यात् । क्वचिद्वा -बोभवीति , बोभोति ; क्वचिन्न -वर्वर्त्ति ; तवीति , तौति ; रवीति , रौति ; स्तवीति , स्तौति । अद्वेरित्येव-तुतोथ , तुष्टोथ ।।६४।। ___ सः सिजस्तेर्दि-स्योः ।४।३॥६५॥ सिजन्ताद् धातोरस्तेश्च सन्तात् परो दि-स्योः परयो: परादिरीत् स्यात् । अकार्षीत् , अकार्षीः ; आसीत् , आसी: । स इति किम् ? अदात् ।।६५।। पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट ।४।३२६६।। ___ एभ्य: परस्य सिचः परस्मैपदे लुप् स्यात् , लुब्योगे च नेट् । अपात् , अगात् , अध्यगात् , अदात् , अधात् , अभूत् , अस्थात् । परस्मै इति किम् ? अपासत पयांसि तैः ।।६६॥ ट्धे-घ्रा-शा-छा-सो वा ।४।३।६७॥ एभ्य: परस्य सिच: परस्मैपदे लुब् वा स्यात् , लुब्योगे च नेट् । अधात् , अधासीत् , अघ्रात् , अघ्रासीत् ; अशात् ; अशासीत् ; अच्छात् , अच्छासीत् , असात् , असासीत् ।।६७|| तन्भ्यो वा त-थासि न्-णोश्च ।४।३।६८॥ तनादिभ्यः परस्य सिचस्ते थासि च लुब् वा स्यात् , तद्योगे न्-णोश्च लुप् , न चेट् । अतत , अतनिष्ठ ; अतथाः , अतनिष्ठाः ; असत , असनिष्ट ; असथाः , असनिष्ठाः ।।६८।। १.च्छा P1, P3, पा३,५ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy