SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २०८ स्वोपज्ञलघुवृत्तिविभूषितं समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति वृद्धि: स्यात् । अचैषीत् । परस्मै इति किम् ? अच्योष्ट । समानस्येति किम् ? अगवीत् । अडितीति किम् ? न्यनुवीत् ॥४४॥ व्यञ्जनानामनिटि ।४॥३॥४५॥ व्यञ्जनान्तस्य धातो: परस्मैपदविषये अनिटि सिचि समानस्य वृद्धि: स्यात् । अराहीत् । समानस्येत्येव-उदवोढाम् । अनिटीति किम् ? अतक्षीत् ।।४५|| वोर्गुगः सेटि ।४॥३॥४६॥ ऊण्णो: सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । प्रौर्णावीत् , प्रौर्णवीत् , प्रौणुवीत् ॥४६॥ व्यञ्जनादेर्वोपान्त्यस्याऽतः ।४॥३॥४७॥ व्यञ्जनादेर्धातोरुपान्त्यस्याऽत: सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अकाणीत् अकणीत् । व्यञ्जनादेरिति किम् ? मा भवान् अटीत् । उपान्त्यस्येति किम् ? अवधीत् । अत इति किम् ? अदेवीत् । सेटीत्येव-अधाक्षीत् ।।४७|| वद-व्रज-लः ।४॥३॥४८॥ वद-व्रजोर्लन्त-रन्तयोश्चोपान्त्यस्याऽस्य परस्मैपदे सेटि सिचि वृद्धि: स्यात् । अवादीत् , अव्राजीत् , अज्वालीत् , अक्षारीत् ॥४८|| न श्वि-जागृ-शस-क्षण-हम्येदितः ।४।३॥४९॥ एषां म्यन्तानाम् एदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अश्वयीत् , अजागरीत् , अशसीत् , अक्षणीत् , अग्रहीत् , अवमीत् , अहयीत् , अकगीत् ।।४९।। णिति ।४॥३॥५०॥ त्रिति णिति च परे धातोरुपान्त्यातो वृद्धि: स्यात् । पाक: , पपाच ॥५०॥ नामिनोऽकलि-हलेः ।४।३।५१॥ नाम्यन्तस्य धातो नो वा कलि-हलिवर्जस्य णिति वृद्धि: स्यात् । अचायि , कारकः , अपीपटत् । कलि-हलिवर्जनं किम् ? अचकलत् , अजहलत् ।।५१।। जागुर्बिणवि ।४।३।५२॥ १. प्रौण्णुवीत् पा१,४, P3सं, J3 विना नास्ति ।। २. न्त्यस्यातो पार ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy