SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । णौ क्री - जीङः |४|२|१०॥ एषां ण आत् स्यात् । क्रापयति, जापयति, अध्यापयति ॥ १० ॥ सिध्यतेरज्ञाने |४| २|११ ॥ " अज्ञानार्थस्य सिध्यतेर्णौ स्वरस्याऽऽत् स्यात् । मन्त्रं साधयति । अज्ञान इति किम् ? तपस्तापसं सेधयति ॥ ११॥ चि- स्फुरोर्नवा |४| २|१२|| चिस्फुरोर्णौ स्वरस्याऽऽद्वा स्यात् । चापयति चाययति : स्फारयति स्फोरयति ||१२|| , रुहः पः ।४।२।१४॥ रुहेर्णौ प् वा स्यात् । रोपयति रोहयति वा तरुम् ||१४|| लियो नोऽन्तः स्नेहद्रवे |४| २ | १५ | १८९ वियः प्रजने | ४|२| १३॥ गर्भाssधानार्थस्य वियो णौ वा आत् स्यात् । पुरो वातो गाः प्रवापयति प्रवाययति ||१३|| , लियः स्नेहद्रवे गम्ये णौ न् अन्तो वा स्यात् । घृतं विलीनयति विलाययति वा । स्नेहद्रव इति किम् ? अयो विलाययति ॥ १५॥ लो लः |४|२|१६॥ Jain Education International लारूपस्य णौ स्नेहद्रवे गम्ये ल् अन्तो वा स्यात् । घृतं विलालयति विलापयति वा । स्नेहद्रव इत्येव - जटाभिरालापयते ||१६|| पातेः |४|२|१७|| पातेर्णौ ल् अन्तः स्यात् । पालयति ||१७|| धूग्-प्रीगोर्नः ।४।२।१८॥ धूग्- प्रीगोर्णौ न् अन्तः स्यात् । धूनयति, प्रीणयति ॥ १८ ॥ वो विधूनने जः । ४ |२| १९ ॥ वा इत्यस्य विधूननेऽर्थे णौ ज् अन्तः स्यात् । पक्षेण उपवाजयति । विधूनन १. विलीनयति घृतं पा२, ४, ५, P2 | २. विलालयति पा१,५ ॥ ३. जोन्तः पा२, ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy