SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम्। १८५ १८५ वृत् सकृत् ।४।१।१०२॥ अन्तस्थास्थानम् इ-उ-ऋत् सकृदेव स्यात् । संवीयते ।।१०२।। दीर्घमवोऽन्त्यम् ।४।१।१०३॥ वेग्वर्जस्य य्वृदन्त्यं दीर्घ स्यात् । जीनः । अव इति किम् ? उत: । अन्त्यमिति किम् ? सुप्तः ।।१०३।। स्वर-हन-गमोः सनि धुटि ।४।१।१०४॥ स्वरान्तस्य हन्-गमोश्च धुडादौ सनि दीर्घ: स्यात् । चिचीषति , जिघांसति , जिगांस्यते । धुटीति किम् ? यियविषति ।।१०४।। तनो वा ।४।१।१०॥ तनेधुंडादौ सनि दीर्घो वा स्यात् । तितांसति , तितंसति । धुटीत्येव - तितनिषति ॥१०५|| क्रमः क्त्वि वा ।४।१०६॥ क्रमो धुडादौ क्त्वि दीर्घो वा स्यात् । क्रान्त्वा , क्रन्त्वा ॥१०६।। अहन्-पञ्चमस्य कि-क्ङिति ।४।१।१०७॥ हन्वर्जस्य पञ्चमान्तस्य कौ धुडादौ च क्ङिति दीर्घः स्यात् । प्रशान् , शान्त: , शंशान्तः । पञ्चमस्येति किम् ? पक्त्वा । अहनिति किम् ? वृत्रहणि । धुटीत्येव-यम्यते ॥१०७|| अनुनासिके च च्छ्-वः शूटू ।४।१।१०८॥ अनुनासिकादौ क्वौ धुडादौ च धातो: च्छ्वोर्यथासंङ्ख्यं श्-ऊटौ स्याताम् । प्रश्नः , शब्दप्राशौ , पृष्टः , स्योमा , अक्षयू: , द्यूतः ॥१०८|| मव्यवि-श्रिवि-ज्वरि-त्वरेरुपान्त्येन ।४।१।१०९॥ एषामनुनासिकादौ क्वौ धुडादौ च प्रत्यये उपान्त्येन सह ऊट् स्यात् । मोमा , मू: , मूति: ; ओम् , ऊ: , ऊति: ; श्रोमा , श्रृं: , श्रूत: ; जुर्मा , जू: , जूर्त्तिः ; तूर्मा , तू: , तूर्णः ॥१०९।। ___ राल्लुक् ।४।१११०॥ १. इतः परं धुटीत्येव क्रमित्वा इत्यधिकम् J3 मध्ये ।। २. धृतिः P2 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy