SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १८१ अनयोरसमानलोपे ङपरे णौ द्वित्वे पूर्वस्याऽद् वा स्यात् । अववेष्टत् , अविवेष्टत् ; अचचेष्टत् , अचिचेष्टत् ॥६६।। ई च गणः ।४।१।६७॥ गणेर्डपरे णौ द्वित्वे पूर्वस्य ई: अश्च स्यात् । अजीगणत् , अजगणत् ॥६७|| अस्याऽऽदेराः परोक्षायाम् ।४।१।६८॥ अस्यां द्वित्वे पूर्वस्याऽऽदेरत आ: स्यात् । आदुः , आरतुः । अस्येति किम् ? ईयुः । आदेरिति किम् ? पपाच ॥६८|| __ अनातो नश्वान्त ऋदाद्यशौ-संयोगस्य ।४।श६९॥ त्रादादेरश्नोते: संयोगान्तस्य च परोक्षायां द्वित्वे पूर्वस्याऽऽदेरात्स्थानादन्यस्याऽस्य आ: स्यात् , कृताऽऽतो नोऽन्तश्च । आनृधु: , आनशे , आनञ्ज । ऋदादीति किम् ? आर ? अनात इति किम् ? आञ्छ ।।६९।। __ भू-स्वपोरदुतौ।४।११७०॥ भू-स्वपो: परोक्षायां द्वित्वे पूर्वस्य यथासंख्यमदुतौ स्याताम् । बभूव , सुष्वाप ॥७०॥ ज्या-व्ये-व्यधि-व्यचि-व्यथेरिः ।४।१।७१॥ एषां परोक्षायां द्वित्वे पूर्वस्य इ: स्यात् । जिज्यौ , संविव्याय , विव्याध , विव्याच , विव्यथे ॥७१॥ ___यजादि-वश्-वचः सस्वरान्तस्था य्वृत् ।४।१।७२॥ यजादेर्वश्-वचोश्च परोक्षायां द्वित्वे पूर्वस्य सस्वरान्तस्था इ-उ-ऋरूपा आसत्त्या स्यात् । इयाज , उवाय , उवाश , उवाच ।।७२।। न वयो य्।४।१।७३॥ वेगो वये परोक्षायां य्वृत् न स्यात् । ऊयुः ॥७३॥ वेरयः ।४।११७४॥ वेगोऽयन्तस्य पूर्वस्य परस्य च परोक्षायां य्वन स्यात् । ववौ । अय इति किम् ? उवाय ।।७४।। १. आसन्ना P3, पामू३,५ विना । प्रत्यासत्त्या स्यात् पा२ बृहद्वृत्तौ च ।। २. वयो य् पा३, P1,2,3 विना । वयेर्यो J2 । वयो यः पा१ । वयो य पार J3 ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy