SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७४ स्वोपज्ञलघुवृत्तिविभूषितं अन्यस्य ।४।१।८॥ स्वरादेरन्यस्य नामधातोर्द्वित्वभाज एकस्वरोंऽशो यथेष्टं प्रथमादिर्द्विः स्यात् । पुपुत्रीयिषति , पुतित्रीयिषति , पुत्रीयियिषति , पुत्रीयिषिषति ॥८|| कण्ड्वादेस्तृतीयः ।४।११९॥ कण्ड्वादेर्द्वित्वभाज एकस्वरस्तृतीय एव अंशो द्वि: स्यात् । कण्डूयियिषति , असूयियिषति ।।९।। पुनरेकेषाम् ।४।१।१०॥ एकेषां मते द्वित्वे कृते पुनर्दित्वं स्यात् । सुसोषुपिषते । एकेषामिति किम् ? सोषुपिषते ।।१०॥ यिः सन् वेर्ण्यः ।४।१।११॥ ईयो द्वित्वभाजो यि: सन् वा द्वि: स्यात् । ईjियिषति , ईjिषिषति ।।११।। हवः शिति ।४।१।१२॥ जुहोत्यादय: शिति द्वि: स्युः । जुहोति ।।१२।। चराचर-चलाचल-पतापत-वदावद-घनाघन-पाटूपटं वा ।४।।१३॥ एतेऽचि कृतद्वित्वादयो वा निपात्यन्ते । चराचर: , चलाचल: , पतापत: , वदावदः , घनाघन: , पाटूपटः । पक्षे -चरः , चलः , पत: , वदः , हनः , पाट: ।।१३।। चिक्लिद-चक्नसम् ।४।१।१४॥ एतौ केऽचि कृतद्वित्वौ निपात्येते। चिक्लिद: , चक्नसः ॥१४॥ दाश्वत्-साह्वत्-मीढ्वत् ।४।१।१५॥ एते कसावद्वित्वादयो निपात्यन्ते । दाश्वांसौ , साह्वांसौ , मीढ्वांसौ ॥१५|| ज्ञप्यापो ज्ञीपीप् , न च द्विः , सि सनि ।४।१।१६॥ ज्ञपेरापेश्च सादौ सनि परे यथासंख्यं ज्ञीपीपौ स्याताम् , नचाऽनयोरेकस्वरोंऽशो द्विः । ज्ञीप्सति , ईप्सति । सीति किम् ? जिज्ञपयिषति ॥१६।। ऋध ई ।४।१।१७॥ ऋध: सादौ सनि परे ईत् स्यात् , न चाऽस्य द्विः । ईर्त्सति । सीत्येव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy