SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं चतुर्थः पादः गुपौ-धूप-विच्छि-पणि-पनेरायः ।।४।१॥ एभ्यो धातुभ्य: स्वार्थे आय: स्यात् । गोपायति , धूपायति , विच्छायति , पणायति , पनायति ॥१॥ - कमेर्णिङ् ।३।४।२॥ कमे: स्वार्थे णिङ् स्यात् । कामयते ॥२॥ __ ऋतेमयः ॥३॥४॥३॥ ऋते: स्वार्थे ङीय: स्यात् । ऋतीयते ।।३।। अशवि ते वा ।३॥४॥४॥ गुपादिभ्योऽशव्विषये ते आयादयो वा स्युः । गोपायिता , गोप्ता ; कामयिता , कमिता ; ऋतीयिता , अर्त्तिता ।।४।। गुप्-तिजो गर्हा-क्षान्तौ सन् ।३।४।५॥ गुपो गर्दायां तिज: क्षान्तौ वर्तमानात् स्वार्थे सन् स्यात् । जुगुप्सते , तितिक्षते । गर्हा-क्षान्ताविति किम् ? गोपनम् , तेजनम् ।।५।। . कितः संशय-प्रतीकारे ।३॥४॥६॥ कित: संशय-प्रतीकारार्थात् स्वार्थे सन् स्यात् । विचिकित्सति में मनः , व्याधिं चिकित्सति । संशयप्रतीकारे इति किम् ? केतयति ॥६॥ शान्-दान्-मान्-बधानिशाना-ऽऽर्जव-विचार-वैरूप्ये दीर्घश्चेतः ।३॥४॥७॥ एभ्यो यथासङ्ख्यं निशानाद्यर्थेभ्य: स्वार्थे सन् स्यात् , दीर्घश्चैषां द्वित्वे पूर्वस्येत: । शीशांसति , दीदांसति , मीमांसते , बीभत्सते । अर्थोक्तिः किम् ? अर्थान्तरे 'मा भूत्-निशानम् , अवदानम् , मानयति , बाधयति ।।७।। धातोः कण्ड्वादेर्यक् ।३।४८॥ एभ्यो धातुभ्य: स्वार्थे यक् स्यात् । कण्डूयति , कण्डूयते , महीयते। धातोरिति १. आयः प्रत्ययो भवति P2 ।। २. मे मनः P2, पामू३, P3सं० विना नास्ति । विचिकित्सति मे मनः । संशय पामू३ । विचिकित्सति व्याधि चिकित्सति । संशय पासं३ ॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy