SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । मिथ्याकृगोऽभ्यासे ।३।३।९३॥ मिथ्यायुक्तात् कृगो ण्यन्तात् क्रियाभ्यासवृत्त्यर्थात् कर्त्तर्यात्मनेपदं स्यात् । पदं मिथ्या कारयते । मिथ्येति किम् ? पदं साधु कारयति । अभ्यास इति किम् ? सकृत् पदं मिथ्या कारयति ॥९३।। परिमुहा-ऽऽयमा-ऽऽयस-पा-ट्धे-वद-वस-दमा-ऽद-रुच-नृतः फलवति ।३।३।९४॥ प्रधानफलवति कर्त्तरि विवक्षिते एभ्यो णिगन्तेभ्य: आत्मनेपदं स्यात् । परिमोहयते चैत्रम् , आयामयते सर्पम् , आयासयते मैत्रम् , पाययते बटुम् , धापयते शिशुम् , वादयते बटुम् , वासयते पान्थम् , दमयते अश्वम् , आदयते चैत्रेण , रोचयते मैत्रम् , नर्तयते नटम् ।।९४॥ ई-गितः ।३।३।९५॥ ईदितो गितश्च धातोः फलवति कर्त्तर्यात्मनेपदं स्यात् । यजते , कुरुते । फलवतीत्येव-यजन्ति , कुर्वन्ति ।।९५।। - ज्ञोऽनुपसर्गात् ।३।३।९६॥ अत: फलवति कर्त्तर्यात्मनेपदं स्यात् । गां जानीते । फलवतीत्येव-परस्य गां जानाति ॥९६।। वदोऽपात् ।३।३।९७॥ अत: फलवति कर्तर्यात्मनेपदं स्यात् । एकान्तमपवदते । फलवतीत्येवअपवदति परं स्वतः ॥९७|| समुदाङो यमेरग्रन्थे ।३।३।९८॥ एभ्य: पराद् यमेरग्रन्थविषये फलवत्कर्त्तर्यात्मनेपदं स्यात् । संयच्छते , उद्यच्छते , आयच्छते । अग्रन्थ इति किम् ? चिकित्सामुद्यच्छति । फलवतीत्येव-संयच्छति ।।९८|| पदान्तरगम्ये वा ।३।३।९९॥ प्रकान्तसूत्रपञ्चके यदात्मनेपदमुक्तं तत् पदान्तरगम्ये फलवत्कर्तरि वा स्यात् । स्वं शत्रु परिमोहयते परिमोहयति वा । स्वं यज्ञं यजते यजति वा । स्वां १. फलवत्कर्त J2, P3, पा३,४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy