SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पदं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा मौहूर्त्ताः । विवाद इति किम् ? संप्रवदन्ते वैयाकरणाः । सहोक्तावित्येव-मौहूर्तो मौहूर्त्तेन क्रमाद् विप्रवदति ||८०|| अनोः कर्मण्यसति | ३ | ३|८१ ॥ व्यक्तवाचामर्थे वर्त्तमानादनुपूर्वाद् वदः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । अनुवदते चैत्रो मैत्रस्य । कर्मण्यसतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येवअनुवदति वीणा ॥ ८१ ॥ ज्ञः ।३।३।८२॥ जानातेः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सर्पिषो जानीते । कर्मण्यसतीत्येव तैलं सर्पिषो जानाति ॥ ८२ ॥ | उपात् स्थः | ३|३|८३॥ अतः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । योगे योगे उपतिष्ठते । कर्मण्यसतीत्येव राजानमुपतिष्ठति ॥ ८३ ॥ समो मृच्छि-प्रच्छि-श्रु - वित्- स्वरत्यर्त्ति - दृशः । ३।३।८४|| संपूर्वेभ्य एभ्यः कर्मण्यसति कर्त्तर्यात्मनेपदं स्यात् । सङ्गच्छते, समृच्छिष्यते संपृच्छते, संशृणुते संवित्ते, संस्वरते, समृच्छते समियृते, संपश्यते कर्मण्यसतीत्येव सङ्गच्छति मैत्रम् ||८४|| , वेः कृगः शब्दे चाऽनाशे | ३ | ३|८५ || | , १५५ " 7 अनाशार्थाद् विपूर्वात् कृगः कर्मण्यसति शब्दे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् । विकुर्वते सैन्धवाः, क्रोष्टा विकुरुते स्वरान् । शब्दे चेति किम् ? विकरोति मृदम् | अनाश इति किम् ? विकरोत्यध्यायम् ||८५|| आङो यम-हनः, स्वेऽङ्गे च | ३|३|८६ ॥ Jain Education International आङः पराभ्यां यम्- हन्भ्यां कर्मण्यसति कर्त्तुः स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् । आयच्छते आहते । आयच्छते, आहते वा पादम् । स्वेऽङ्गे चेति किम् ? आयच्छति रज्जुम् ||८६|| , व्युदस्तपः | ३|३|८७ ॥ आभ्यां परात् तपेः कर्मण्यसति, स्वेऽङ्गे च कर्मणि कर्त्तर्यात्मनेपदं स्यात् For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy