SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १४९ कूजनम् अव्यक्तः शब्दः , ततोऽन्यार्थात् संपूर्वात् क्रीडे: कर्त्तर्यात्मनेपदं स्यात् । संक्रीडते । सम इत्येव-क्रीडति । अकूजन इति किम् ? संक्रीडन्त्यनांसि ॥३३।। अन्वाङ्-परेः ।३।३॥३४॥ एभ्य: परात् क्रीडे: कर्त्तर्यात्मनेपदं स्यात् । अनुक्रीडते , आक्रीडते , परिक्रीडते ||३४|| शप उपलम्भने ।३।३।३५॥ उपलम्भनं प्रकाशनं शपथो वा , तदर्थाच्छपे: कर्तर्यात्मनेपदं स्यात् । मैत्राय शपते । उपलम्भन इति किम् ? मैत्रं शपति ।।३।। आशिषि नाथः ।३॥३॥३६॥ आशीर्थादेव नाथे: कर्त्तर्यात्मनेपदं स्यात् । सर्पिषो नाथते । आशिषीति किम् ? मधु नाथति ॥३६।। भुनजोऽत्राणे ।३॥३॥३७॥ पालनादन्यार्थाद् भुनक्तेः कर्त्तर्यात्मनेपदं स्यात् । ओदनं भुङ्क्ते । भुनज इति किम् ? ओष्ठौ निर्भुजति । अत्राण इति किम् ? पृथ्वीं भुनक्ति ।।३७|| हृगो गतताच्छील्ये ।३।३।३८॥ गतं सादृश्यम् , हगो गतताच्छील्यार्थात् कर्त्तर्यात्मनेपदं स्यात् । पैतृकमश्वा अनुहरन्ते , पितुरनुहरन्ते । गत इति किम् ? पितुर्हरति । ताच्छील्य इति किम् ? नटो राममनुहरति ॥३८॥ पूजा-ऽऽचार्यक-भृत्युत्क्षेप-ज्ञान-विगणन-व्यये नियः ।३॥३॥३९॥ पूजादिषु गम्येषु नियः कर्त्तर्यात्मनेपदं स्यात् । नयते विद्वान् स्याद्वादे , माणवकमुपनयते , कर्मकरानुपनयते , शिशुमुदानयते , नयते तत्त्वार्थे , मद्रा: कारं विनयन्ते , शतं विनयते । एष्विति किम् ? अजां नयति ग्रामम् ।।३९।। कर्तृस्थामूर्ताऽऽप्यात् ।३॥३॥४०॥ कर्तृस्थममूर्तं कर्म यस्य तस्मान्नियः कर्त्तर्यात्मनेपदं स्यात् । श्रमं विनयते १. हरते P1सं, P3, J2, पा१,४,५ बृहद्वृत्तौ मध्यमवृत्तौ न्यासे च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy