SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पुरुषे वा । ३।२।१३५|| पुरुषे उत्तरपदे को : का वा स्यात् । कापुरुषः, कुपुरुषः || १३५|| अल्पे | ३|२|१३६ | ईषदर्थस्य कोरुत्तरपदे का स्यात् । कामधुरम् , काऽच्छम् ॥१३६॥ का - कवौ वोष्णे |३|२|१३७॥ उष्णे उत्तरपदे को का कबौ वा स्याताम् । कोष्णम् कवोष्णम् |पक्षे - , यथाप्राप्तमिति तत्पुरुषे - कदुष्णम् । बहुव्रीहौ - कूष्णो देशः || १३७ || कृत्येऽवश्यमो लुक् । ३।२।१३८॥ कृत्यान्ते उत्तरपदे ऽवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? अवश्यंलावकः || १३८| समस्तत - हिते वा । ३।२।१३९॥ तते हिते चोत्तरपदे समो लुग् वा स्यात् । सततम्, सन्ततम् ; सहितम् संहितम् ॥१३९॥ तुमच मनः कामे | ३|२|१४०॥ तुम्-समोर्मनसि कामे चोत्तरपदे लुक् स्यात् । भोक्तुमनाः, गन्तुकामः ; समना: सकामः || १४०॥ , १४१ मांसस्याsनडू - घञि पचि नवा | ३ |२| १४१ ॥ । अनड्-घञन्ते पचावुत्तरपदे मांसस्य लुग् वा स्यात् । मांस्पचनम्, मांसपचनम् ; मांस्पाकः, मांसपाकः || १४१ || दिक्शब्दात् तीरस्य तारः | ३ |२| १४२ ।। अस्मात् परस्य तीरस्योत्तरपदस्य तारो वा स्यात् । दक्षिणतारम् दक्षिणतीरम् || १४२।। Jain Education International " सहस्य सोऽन्यार्थे । ३।२।१४३॥ उत्तरपदे परे बहुव्रीहौ सहस्य सो वा स्यात् । सपुत्रः, सहपुत्रः । अन्यार्थ इति किम् ? सहजः ॥१४३॥ नाम्नि | ३ |२| १४४॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy