SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १३६ स्वोपज्ञलघुवृत्तिविभूषितं द्वित्र्यष्टानां द्वा-त्रयो-ऽष्टाः प्राक् शतादनशीति-बहुव्रीहौ ।३।२।९२॥ एषां यथासंख्यमेते प्राक् शतात् संख्यायामुत्तरपदे स्यु: , न तु अशीतौ बहुव्रीहिविषये च । द्वादश , त्रयोविंशतिः , अष्टात्रिंशत् । प्राक्ातादिति किम् ? द्विशतम् , त्रिशतम् , अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम् ? द्वयशीतिः , द्वित्राः ।।९२।। चत्वारिंशदादौ वा ।३।२।९३॥ द्वित्र्यष्टानां प्राक् शताच्चत्वारिंशदादावुत्तरपदे यथासंख्यं द्वा-त्रयोऽष्टा वा स्यु: , अनशीतिबहुव्रीहौ । द्वाचत्वारिंशत् , द्विचत्वारिंशत् ; त्रयश्चत्वारिंशत् , त्रिचत्वारिंशत् ; अष्टाचत्वारिंशत् , अष्टचत्वारिंशत् ।।९३।। हृदयस्य हृल्लास-लेखा-ऽण-ये ।३।२।९४॥ अस्य लास-लेखयोरुत्तरपदयोरणि ये च प्रत्यये हृत् स्यात् । हल्लास: , हल्लेख: , हार्दम् , हृद्यः ॥९४॥ पदः पादस्याऽऽज्याति-गोपहते ।३।२।९५॥ पादस्याज्यादावुत्तरपदे पद: स्यात् । पदाजिः , पदाति: , पदगः , पदोपहतः ॥९५|| हिम-हति-काषि-ये पद् ।३।२।९६॥ हिमादावुत्तरपदे ये च प्रत्यये पादस्य पद् स्यात् । पद्धिमम् , पद्धतिः , पत्काषी , पद्या: शर्कराः ॥९६।। ऋचः शसि ।३।२।९७॥ ऋचां पादस्य शादौ शस्प्रत्यये पद् स्यात् । पच्छो गायत्रीं शंसति । ऋच इति किम् ? पादश: श्लोकं वक्ति । द्विशपाठात् स्यादिशसि न स्यात् - ऋचः पादान् पश्य ।।९७॥ शब्द-निष्क-घोष-मिश्रे वा ।३।२।९८॥ शब्दादावुत्तरपदे पादस्य पद् वा स्यात् । पच्छब्दः , पादशब्द: ; पन्निष्क: , पादनिष्क: ; पद्घोषः , पादघोषः ; पन्मिश्रः , पादमिश्रः ।।९८|| नस् नासिकायास्तः क्षुद्रे ।३।२।९९॥ १. हृद्यम् खं२ ।। २. द्विशकारपाठात् खंर J3 || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy