SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं गवि युक्ते ।३।२।७४॥ युक्तेऽर्थे गव्युत्तरपदेऽष्टनो दीर्घ: स्यात् । अष्टागवं शकटम् । युक्त इति किम् ? अष्टगुश्चैत्रः ।।७४।। नानि ।३।२।७५॥ __ अष्टन उत्तरपदे संज्ञायां दीर्घः स्यात् । अष्टापद: कैलाशः । नाम्नीति किम् ? अष्टदंष्ट्रः ।।७५|| कोटर-मिश्रक-सिध्रक-पुरग-सारिकस्य वणे ।३।२।७६॥ एषां कृतणत्वे वने उत्तरपदे संज्ञायां दीर्घ: स्यात् । कोटरावणम् , मिश्रकावणम् सिध्रकावणम् , पुरगावणम् , सारिकावणम् ।।७६।। अञ्जनादीनां गिरौ ।३।२।७७॥ एषां गिरावुत्तरपदे नाम्नि दीर्घ: स्यात् । अञ्जनागिरिः , कुक्कुटागिरिः ॥७७।। अनजिरादिबहुस्वर-शरादीनां मतौ ।३।२।७८॥ अजिरादिवर्जबहुस्वराणां शरादीनां च मतौ प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती , शरावती , वंशावती। अनजिरादीति किम् ? अजिरवती , हिरण्यवती ॥७८॥ ऋषौ विश्वस्य मित्रे ॥३॥२॥७९॥ ऋषावर्थे मित्रे उत्तरपदे विश्वस्य नाम्नि दीर्घः स्यात् । विश्वामित्रः ॥७९।। नरे।३।२।८०॥ नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । विश्वानरः कश्चित् ।।८०।। वसु-राटोः ।३।२।८१॥ अनयोरुत्तरपदयोर्विश्वस्य दीर्घः स्यात् । विश्वावसुः , विश्वाराट् ।।८१।। . वलच्यपित्रादेः ।३।२।८२॥ वलच्प्रत्यये पित्रादिवर्जानां दीर्घः स्यात् । आसुतीवल: । अपित्रादेरिति किम् ? पितृवलः , मातृवल: ।।८२।। चितेः कचि ।३।२।८३॥ १. कैलासः पार J3 बृहद्वृत्तौ च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy