SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कल्याणीचमा रात्रयः कल्याणीप्रियः । अप्रियादाविति किम् ? कल्याण पञ्चमीकः पक्षः ||५३|| " तद्धिताsककोपान्त्य- पूरण्याख्याः | ३|२२५४॥ तद्धितस्याऽकप्रत्ययस्य च क उपान्त्यो यासां ताः, पूरणप्रत्ययान्ताः, संज्ञाश्च परत: स्त्रियः पुंवन्न स्युः । मद्रिकाभार्यः, कारिकाभार्यः, पञ्चमीभार्यः, दत्ताभार्यः । तद्धिताकेति किम् ? पाकभार्यः ||५४ || तद्धितः स्वरवृद्धिहेतुररक्त विकारे । ३ । २।५५ ॥ १३१ रक्त-विकाराभ्यामन्यार्थे स्वरवृद्धिहेतुर्यस्तद्धितस्तदन्तः परतः स्त्री पुंवन्न स्यात् । माथुरीभार्यः । स्वरेति किम् ? वैयाकरणभार्यः । वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थभार्यः । अरक्तविकार इति किम् ? काषायबृहतिकः, लौषः || ५५ || स्वाङ्गान्ङीर्जातिश्चाऽमानिनि । ३।२।५६ ॥ I स्वाङ्गाद् यो ङीस्तदन्तो जातिवाची च परतः स्त्री पुंवन्न स्यात्, न तु मानिनि । दीर्घकेशीभार्यः कठीभार्यः शूद्राभार्यः । स्वाङ्गादिति किम् ? । ; । पटुभार्यः । अमानिनीति किम् ? दीर्घकेशमानिनी || ५६ || पुंवत् कर्म्मधारये || ३ |२|५७॥ परतः स्त्री अनूङ् कर्मधारये सति स्त्र्येकार्थे उत्तरपदे परे पुंवत् स्यात् । कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका । अनूङित्येवब्रह्मबन्धूवृन्दारिका ॥५७॥ रिति | ३ |२|५८ || परत: स्त्री अनूङ् रिति प्रत्यये पुंवत् स्यात् । पटुजातीया, कठदेशीया ॥ ५८ ॥ त्व- ते गुणः ।३।२।५९॥ परतः स्त्र्यनूङ् गुणवचनस्त्व-तयोः प्रत्यययोः पुंवत् स्यात् । पटुत्वम्, पटुता | गुण इति किम् ? कठीत्वम् ॥५९॥ Jain Education International च्वौ क्वचित् |३|२|६०॥ परतः स्त्र्यनूङ् च्वौ क्वचित् पुंवत् स्यात् । महद्भूता कन्या । कचिदिति किम् ? गोमतीभूता ॥ ६० ॥ सर्वादयोऽस्यादौ | ३ |२|६१॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy