SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ११५ एतान्येकार्थानि परेण नाम्ना समासस्तत्पुरुष: कर्मधारयश्च स्यु: । पूर्वपुरुषः , अपरपुरुष: , प्रथमपुरुष: , चरमपुरुष: , जघन्यपुरुषः, समानपुरुषः , मध्यपुरुष: , मध्यमपुरुष: , वीरपुरुषः ।।१०३।। श्रेण्यादि कृताद्यैश्च्व्यर्थे ।३।१।१०४॥ श्रेण्याघेकार्थं कृताद्यैः सह च्व्यर्थे गम्ये समासस्तत्पुरुष: कर्मधारयश्च स्यात् । श्रेणिकृताः , ऊककृता: । च्व्यर्थ इति किम् ? श्रेणय: कृताः किञ्चित् ।।१०४।। क्तं नञादिभिन्नैः ।३।१।१०५॥ क्तान्तमेकार्थं नप्रकारैरेव यानि भिन्नानि तैः सह समासस्तत्पुरुष: कर्मधारयश्च स्यात् । कृताकृतम् , पीताऽवपीतम् । क्तमिति किम् ? कर्त्तव्यमकर्त्तव्यं च । नत्रादिभिन्नैरिति किम् ? कृतं प्रकृतम् , कृतं चाऽविहितं च ॥१०५।। सेड् नाऽनिटा ।३।१।१०६॥ सेट् क्तान्तं नादिभिन्नेनाऽनिटा सह न समस्यते । क्लिशितमक्लिष्टम् , शितमशातम् । सेडिति किम् ? कृताकृतम् । अनिटेति किम् ? अशितानशितम् ।।१०६।। सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ।३।१।१०७॥ एतान्येकार्थानि पूजायां गम्यायां पूज्यवचनैः सह समासस्तत्पुरुषः कर्मधारयश्च स्युः । सत्पुरुषः , महापुरुष: , परमपुरुष: , उत्तमपुरुष: , उत्कृष्टपुरुषः । पूजायामिति किम् ? सन् घट: , अस्तीत्यर्थः ।।१०७|| वृन्दारक-नाग-कुञ्जरैः ।३।१।१०८॥ पूजायां गम्यायामेभिः सह पूज्यवाच्येकार्थं समासस्तत्पुरुष: कर्मधारयश्च स्यात् । गोवृन्दारक: , गोनाग: , गोकुञ्जरः । पूजायामित्येव- सुसीमो नागः ।।१०८।। कतर-कतमौ जातिप्रश्ने ।३।१।१०९॥ एतावेकार्थी जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्याताम् । कतरकठ: , कतमगार्ग्य: । जातिप्रश्न इति किम् ? कतरः शुक्ल: , कतमो गन्ता ||१०९।। किं क्षेपे ।३।१।११०॥ निन्दायां गम्यायां किमित्येकार्थं कुत्स्यवाचिना समासस्तत्पुरुष: कर्मधारयश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy