SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्री सिद्धहेमचन्द्रशब्दानुशासनम् । पौतिमाष्यायणी, पौतिमाष्या ; आवट्यायनी, आवट्या ॥६९॥ कौरव्य - माण्डूका - ssसुरेः | २|४|७० || , एभ्यः स्त्रियां ङीः स्यात्, ङीयोगे च डायनन्तः । कौरव्यायणी, माण्डूकायनी आसुरायणी ॥ ७० ॥ इञ इतः | २|४|७१ ॥ इञन्ताद् इदन्तात् स्त्रियां ङी: स्यात् । सौतङ्गमी । इत इति किम् ? कारीषगन्ध्या ॥७१॥ नुर्जातेः | २|४|७२॥ मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङीः स्यात् । कुन्ती, दाक्षी । इत इत्येव - दरत् । नुरिति किम् ? तित्तिरिः । जातेरिति किम् ? निष्कौशाम्बिः ||७२ || उतोsप्राणिनश्चाऽयु-रज्ज्वादिभ्य ऊङ् ।२।४।७३ ॥ " उदन्तान्नृजात्यप्राणिजातिवाचिनः स्त्रियाम् ऊङ् स्यात्, न तु य्वन्ताद् रज्ज्वादिभ्यश्च । कुरू: ब्रह्मबन्धूः ; अलाबूः, कर्कन्धूः । उत इति किम् ? वधूः । अप्राणिनश्चेति किम् ? आखुः । जातेरित्येव - पटुः स्त्री । यु-रज्ज्वादिवर्जनं किम् ? अध्वर्युः स्त्री, रज्जुः ॥७३॥ बाह्वन्त-कद्रु-कमण्डलोर्नानि | २|४|७४ || बाह्वन्तात् कद्रु-कमण्डलुभ्यां च संज्ञायां स्त्रियाम् ऊङ् स्यात् । मद्रबाहूः कद्रूः कमण्डलूः । नाम्नीति किम् ? वृत्तबाहुः ||७४ || 1 उपमान-सहित-संहित-सह- शफ-वाम-लक्ष्मणाद्यूरो: ।२।४।७५।। एतत्पूर्वपदादूरो: स्त्रियाम् ऊङ् स्यात् । करभोरूः सहितोरूः संहितोरूः सहोरूः, शफोरू: वामोरू, लक्ष्मणोरूः । उपमानाद्यादेरिति किम् , 7 ? पीनोरुः ||७५ || ९५ 1 नारी-सखी-पङ्ग श्वश्रू | २|४|७६ ॥ एते इयन्ता ऊङन्ताश्च स्त्रियां निपात्यन्ते ॥ ७६ ॥ यूनस्तिः | २|४|७७ || Jain Education International यूनः स्त्रियां तिः स्यात् । युवतिः । मुख्यादित्येव निर्यूनी ॥७७॥ अनार्षे वृद्धेऽणित्रो बहुस्वर - गुरूपान्त्यस्याऽन्तस्य ष्यः | २|४|७८ || For Private & Personal Use Only ? www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy