SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं स्था-सेनि-सेध-सिच-सञ्जां द्वित्वेऽपि ।२।३॥४०॥ उपसर्गस्थानाम्यादेः परेषां स्थादीनां स: ष् स्यात् , द्वित्वेऽप्यट्यपि । अधिष्ठास्यति , अधितष्ठौ , प्रत्यष्ठात् । अभिषेणयति ,अभिषिषणयिषति , अभ्यषेणयत् । प्रतिषेधति , प्रतिषिषेधिषति , प्रत्यषेधत् । अभिषिञ्चति , अभिषिषिक्षति , अभ्यषिञ्चत् । अभिषजति , अभिषषञ्ज , अभ्यषजत् ॥४०॥ अङप्रतिस्तब्ध-निस्तब्धे स्तम्भः ।२।३।४॥ उपसर्गस्थान्नाम्यादे: परस्य स्तम्भस्सो द्वित्वेऽप्यट्यपि ष् स्यात् , न चेत् स्तम्भिर्डे प्रतिस्तब्ध-निस्तब्धयोश्च स्यात् । विष्टनाति , वितष्टम्भ , प्रत्यष्टनात् । डादिवर्जनं किम् ? व्यतस्तम्भत् , प्रतिस्तब्धः , निस्तब्धः ॥४१।। अवाचाऽऽश्रयोर्जा-ऽविदूरे ।२।३।४२॥ अवादुपसर्गात् परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वेऽप्यट्यपि ष् स्यात् , ङविषयश्चेत् स्तम्भिर्न स्यात् । आश्रय आलम्बनम् । दुर्गमवष्टनाति , अवतष्टम्भ , अवाष्टम्नाद् वा । ऊर्जा और्जित्यम् । अहो ! वृषलस्यावष्टम्भ: । अविदूरम् आसन्नम्, अदूरासनं च । अवष्टब्धा शरत् , अवष्टब्धे सेने । चोऽनुक्तसमुच्चये , तेन उपष्टम्भः । अङ इत्येव-अवातस्तम्भत् ।।४२।। व्यवात् स्वनोऽशने ।२।३॥४३॥ वेरवाच्चोपसर्गात् परस्य स्वनः सोऽशने भोजने द्वित्वेऽप्यट्यपि ष् स्यात् । विष्वणति , अवष्वणति , विषष्वाण , अवषष्वाण , व्यष्वणत् , अवाष्वणत् , व्यषिष्वणत् , अवाषिष्वणत् । अशन इति किम् ? विस्वनति मृदङ्गः ॥४३।। सदोऽप्रतेः परोक्षायां त्वादेः ।२।३।४४॥ प्रतिव|पसर्गस्थान्नाम्यादेः परस्यः सदः सो द्वित्वेऽप्यट्यपि ष् स्यात् , परोक्षायां तु व्युक्तौ सत्याम् आदेः पूर्वस्यैव । निषीदति , निषाषद्यते , न्यषीषदत् , निषसाद । अप्रतेरिति किम् ? प्रतिसीदति ॥४४॥ स्वञ्जश्च ।२।३।४५॥ उपसर्गस्थान्नाम्यादेः परस्य स्वञ्जः सो द्वित्वेऽप्यट्यपि ष् स्यात् , परोक्षायां त्वादेरेव । अभिष्वजते , अभिषिष्वङ्क्षते , प्रत्यष्वजत , परिषस्वजे ॥४५॥ १. अत्यष्ठात् खं२ ।। २. विषा खं३ विना ॥ ३. व्यषी खं२,३ विना ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy