SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं किम् ? काश्यपप्रतिकृति: काश्यपः । असंख्य इति किम् ? एको व्रीहिः संपन्न: सुभिक्षं करोति ॥१२॥ अविशेषणे द्वौ चाऽस्मदः ।२।२।१२२॥ अस्मदो द्वावेकश्चार्थो बहुवद् वा स्यात् । अविशेषणे न चेत् तस्य विशेषणं स्यात् । आवां ब्रूव: , वयं ब्रूमः । अहं ब्रवीमि , वयं ब्रूमः । अविशेषण इति किम् ? आवां गाग्यौं ब्रूवः । अहं चैत्रो ब्रवीमि ॥१२२।। फल्गुनी-प्रोष्ठपदस्य भे ।२।२।१२३॥ फल्गुनी-प्रोष्ठपदयोर्भे नक्षत्रे वर्त्तमानयोञवाँ बहुवद् वा स्याताम् । कदा पूर्वे फल्गुन्यौ , कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे , कदा पूर्वाः प्रोष्ठपदा: । भ इति किम् ? फल्गुनीषु जाते फल्गुन्यौ कन्ये ॥१२३।। गुरावेकश्च ।२।२।१२४॥ गुरौ गौरवार्हे वर्तमानस्य द्वावेकश्चार्थो बहुवद् वा स्यात् । युवां गुरू , यूयं गुरवः । एष मे पिता , एते मे पितरः ।।१२४।। [इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ] द्वितीयस्याध्यायस्य द्वितीय: पादः समाप्त: ।।२।२।। मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारणम् । अधुना मूलराजस्तु चित्रं लोकेषु गीयते ।।३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy