SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं ग्रामाद् ग्रामस्य वा । अन्तिकमभ्यासं वा ग्रामाद् ग्रामस्य वा ॥ ७८ ॥ स्तोका -ऽल्प- कृच्छ्र-कतिपयादसत्त्वे करणे | २ | २|७९॥ ६४ यतो द्रव्ये शब्दप्रवृत्तिः स गुणोऽसत्त्वं तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि , तस्मिन् करणे वर्त्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकात् स्तोकेन वा, अल्पादल्पेन वा, कृच्छ्रात् कृच्छ्रेण वा कतिपयात् कतिपयेन वा मुक्तः । असत्त्व इति किम् ? स्तोकेन विषेण हतः ॥७९॥ अज्ञाने ज्ञः षष्ठी | २|२|८०॥ , अज्ञानार्थस्य ज्ञो यत् करणं तद्वाचिन एक-द्वि- बहौ यथासंख्यं ङसोसाम्लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः सर्पिषोः सर्पिषां वा जानीते । अज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव - तैलं सर्पिषो जानाति ॥ ८० ॥ शेषे | २|२|८१ ॥ , कर्मादिभ्योऽन्यस्तदविवक्षारूप: स्व-स्वामिभावादिसम्बन्धः शेषः तत्र षष्ठी स्यात् । राज्ञः पुरुषः, उपगोरपत्यम् माषाणामश्नीयात् ॥ ८१ ॥ रि-रिष्टात्-स्तादस्तादसंतसाता | २|२|८२|| । एतत्प्रत्ययान्तैर्युक्तात् षष्ठी स्यात् । उपरि उपरिष्टात् परस्तात् पुरस्तात् अधस्तात् पुरः दक्षिणतः उत्तराद् वा ग्रामस्य ||८२|| कर्मणि कृतः | २|२|८३॥ कृदन्तस्य कर्मणि षष्ठी स्यात् । अपां स्रष्टा, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ? भुक्तपूर्वी ओदनम् ||८३ || द्विषो वाशः | २|२|८४॥ अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य चौरं वा द्विषन् ||८४|| वैकत्र द्वयोः | २|२|८५ ॥ द्विकर्मकेषु धातुषु द्वयोः कर्मणोरेकतरस्मिन् षष्ठी वा स्याद् । अन्यत्र पूर्वेण नित्यमेव । अजाया नेता सुघ्नं सुम्नस्य वा । अथवा अजामजाया वा नेता सुघ्नस्य ||८५ || कर्तरि | २|२|८६॥ १. न्धविशेषः शेषः पा१ ।। २. दोहकः खं१,२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy