SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं तृणं मन्वे । अनावादिभ्य इति किम् ? न त्वा नावम् अन्नं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् ? न त्वा तृणाय मन्ये युष्मदो मा भूत् । अतीति किम् ? त्वां तृणं मन्ये ॥ ६४ ॥ हित-सुखाभ्याम् ।२।२।६५॥ ६२ आभ्यां युक्ताच्चतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् । चैत्राय चैत्रस्य वा सुखम् ||६५|| तद् भद्रा -ssयुष्य-क्षेमा -ऽर्थार्थेनाऽऽशिषि । २।२।६६॥ तदिति हित-सुखयोः परामर्शः, हिताद्यर्थैर्युक्तादाss शिषि गम्यायां चतुर्थी वा स्यात् । हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुखं शं वा प्रजाभ्यः प्रजानां वा भूयात् । भद्रमस्तु जिनशासनाय जिनशासनस्य वा । आयुष्यमस्तु चैत्राय चैत्रस्य वा । क्षेमं भूयात् सङ्घाय सङ्घस्य वा । अर्थः कार्यं वा भूयान्मैत्राय मैत्रस्य वा ||६६|| T , परिक्रयणे |२| २|६७॥ परिक्रीयते नियतकालं स्वीक्रियते येन तस्मिन् वर्त्तमानाच्चतुर्थी वा स्यात् । शताय शतेन वा परिक्रीतः ||६७|| शक्तार्थ-वषड्-नमः-स्वस्ति - स्वाहा स्वधाभिः ।२।२।६८॥ शक्तार्थैर्वषडादिभिश्च युक्ताच्चतुर्थी नित्यं स्यात् । शक्तः प्रभुर्वा मल्लो मल्लाय | वषनये । नमोऽर्हद्भ्यः । स्वस्ति प्रजाभ्यः । स्वाहेन्द्राय । स्वधा पितृभ्यः ||६८|| पञ्चम्यपादाने |२| २|६९ ॥ अपादाने एक-द्वि-बहौ यथासंख्यं ङसि - 2 | ग्रामाद् गोदाभ्यां वनेभ्यो वा आगच्छति ॥ ६९॥ आङाऽवधौ | २|२|७० ॥ अवधिर्मर्यादाऽभिविधिश्च तद्वृत्तेराङा युक्तात् पञ्चमी स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः ॥७०॥ , Jain Education International -भ्याम्भ्यस्लक्षणा पपाभ्यां वर्ज्ये | २२|७१॥ वर्ज्ये वर्जनीये वर्त्तमानात् पर्यपाभ्यां युक्तात् पञ्चमी स्यात् । परि अप वा For Private & Personal Use Only पञ्चमी स्यात् www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy