SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं द्विद्रोणं वा धान्यं क्रीणाति । पञ्चकेन, पञ्चकं पञ्चकं वा पशून् क्रीणाति ॥५०॥ समो ज्ञोऽस्मृतौ वा । २।२।५१|| अस्मृत्यर्थस्य संजानातेर्यद् व्याप्यं तद्वृत्तेस्तृतीया वा स्यात् । मात्रा मातरं वा संजानीते । अस्मृताविति किम् ? मातरं संजानाति ॥५१|| दामः संप्रदानेऽधर्म्य आत्मने च । २।२।५२ || संपूर्वस्य दामः संप्रदानेऽधर्म्ये वर्त्तमानात् तृतीया स्यात्, तत्सन्नियोगे च दाम आत्मनेपदम् । दास्या संप्रयच्छते कामुकः । अधर्म्य इति किम् ? पत्न्यै संप्रयच्छति ||५२|| ६० चतुर्थी | २|२|५३॥ संप्रदाने वर्त्तमानादेक-द्वि-बहौ यथासंख्यं ङे- भ्याम्भ्यस्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते || ५३ || तादर्थ्ये ।२।२।५४॥ तस्मा इदं तदर्थम्, तद्भावे सम्बन्धविशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु रन्धनाय स्थाली ||५४ || रुचि-कृप्यर्थ-धारिभिः प्रेय-विकारोत्तमर्णेषु |२| २|५५॥ रुच्यर्थैः कृप्यर्थैर्धारिणा च योगे यथासंख्यं प्रेय विकारोत्तमर्णवृत्तेश्वतुर्थी स्यात् | मैत्राय रोचते धर्म: मूत्राय कल्पते यवागूः चैत्राय शतं धारयति ||५५|| प्रत्याङः श्रुवार्थिनि | २२|५६ ॥ " 7 प्रत्याङ्भ्यां परेण श्रुवा युक्तादर्थिन्यभिलाषुके वर्त्तमानाच्चतुर्थी स्यात् । द्विजाय गां प्रतिशृणोति आशृणोति वा || ५६ || प्रत्यनोर्गुणाऽऽख्यातरि |२| २|५७॥ प्रत्यनुभ्यां परेण गृणा योगे आख्यातृवृत्तेश्वतुर्थी स्यात् । गुरवे प्रतिगृणाति अनुगृणाति वा ॥५७॥ द्वी राधीक्षी | २|२|५८॥ वीक्ष्यं विमतिपूर्वकं निरूप्यम् तद्विषया क्रियापि । यस्य वीक्ष्ये राधीक्षी वर्त्ते तद्वृत्तेश्वतुर्थी स्यात् । मैत्राय राध्यति ईक्षते वा ईक्षितव्यं परस्त्रीभ्यः । १. संपूर्वस्य J3 विना नास्ति । संदामः खं२ || " Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy