SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । हिंसानामेषां व्याप्यं कर्म वा स्यात् । चौरस्य चौरं वोज्जासयति , चौरस्य चौर वोन्नाटयति , चौरस्योत्क्राथयति , चौरमुत्क्रथयति , चौरस्य चौरं वा पिनष्टि । हिंसायामिति किम् ? चौरं बन्धनाज्जासयति ॥१४॥ नि-प्रेभ्यो नः ।२।२।१५॥ समस्त-व्यस्त-विपर्यस्ताभ्यां नि-प्राभ्यां परस्य हिंसार्थस्य हन्तेर्व्याप्यम् कर्म वा स्यात् । चौरस्य चौरं वा निप्रहान्त । हिंसायामित्येव-रागादीनिहन्ति ।। १५।। विनिमेय-द्यूतपणं पणि-व्यवहोः ।२।२।१६॥ विनिमेय: क्रेय-विक्रेयोऽर्थः , द्यूतपणो द्यूतजेयम् , तौ पणव्यवहोर्व्याप्यौ वा कर्म स्याताम् । शतस्य शतं वा पणायति , दशानां दश का व्यवहरति । विनिमेय-द्यूतपणमिति किम् ? साधून पणायति ।।१६।। उपसर्गाद् दिवः ।२।२।१७॥ उपसर्गात् परस्य दिवो व्याप्यौ विनिमेय-द्यूतपणौ वा कर्म स्याताम् । शतस्य शतं वा प्रदीव्यति । उपसर्गादिति किम् ? शतस्य दीव्यति ।।१७|| न२।२।१८॥ अनुपसर्गस्य दिवो व्याप्यौ विनमेय-द्यूतपणौ कर्म न स्याताम् । शतस्य दीव्यति ||१८॥ करणं च ।२।२।१९॥ दिव: करणं 'कर्म करणं च' युगपत् स्यात् । अक्षान् दीव्यति , अझैर्दीव्यति , अक्षैर्देवयते मैत्रश्चैत्रेण ।।१९।। अधेः शीङ्-स्था-ऽऽस आधारः ।२।२।२०॥ अधेः संबद्धानां शीङ्-स्था-ऽऽसामाधारः कर्म स्यात् । ग्राममधिशेते , अधितिष्ठति , अध्यास्ते वा ।।२०।। उपान्वध्यावसः ।२।२।२१॥ उपादिविशिष्टस्य वसतेराधारः कर्म स्यात् । ग्राममुपवसति , अनुवसति , अधिवसति , आवसति वा ।।२१।। वाऽभिनिविशः ।२।२।२२॥ अभि-निभ्यामुपसृष्टस्य विशेराधारः कर्म वा स्यात् । ग्राममभिनिविशते , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy