SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्तुतिः। ऐन्द्रस्तुतिचतुर्विंशतिका । सुपर्वश्रेण्याः 'क्षणे उत्सवे 'सकलकलशता' कलकल:-कोलाहलस्तस्य शतं कलकलशतं सह तेन वर्तते या सा तथा, तामारार्द्ध बहवो देवा मिलिता उच्चैर्भगवत्या नाम जपन्तो जगत् कोलाहलाद्वैतकलितं कुर्वन्तीत्यर्थः । पुनः किं० ? रमया-लक्ष्म्या राजिताशोमिता । पुनः किं० ? कला-मनोहरा आभा-शोभा यस्याः सा तथा । पुनः किं० ? 'मराले' राजहंसे 'स्थिता' आसीना, मराले किम्भूते ? न सन्ति विपक्षाः-शत्रवो यस्य स तथा तस्मिन् । पुनः किं० सन्तौ-उत्तमौ वि-विशिष्टौ पक्षी-पतत्रेयस्य स तथा तस्मिन् । किं कुर्वती ? रवाः नाम-भाषार्या अर्द्धमागधभाषया भाषणशीलास्तीर्थङ्करादयः तत्सम्बन्धिनम् आगम-द्वादशाङ्गगणिपीटकं 'दिशन्ती' प्रयच्छन्ती,रवार्यागमं किं कुर्वन्तम् ? 'गमं सदृशपाठं 'दधतं' बिभ्रतम् , द्वादशाङ्गगणिपीटकस्य गमकलितत्वादिति भावः। पुनः किं कुर्वती ? 'सदा' नित्यं 'स्वयम्' आत्मना 'मङ्गलं' कल्याण 'तन्वती' विदधती, मङ्गलं कीदृशम् ? सकलकलशवत्-सम्पूर्णकुम्भवत् तारं-मनोहरं लक्ष्मीप्रदं वा, यथा पूर्णकलशदर्शनमेव मङ्गल्यं तथा भगवत्या दर्शनमपीति भावः। किम्भूता ? एंकारेण-वाग्बीजाक्षरेण विस्फारम्-अत्युदारं यत् सारस्वतध्यान-सारस्वतमन्त्रप्रणि धानं तेन दृष्टा-भावनाविशेषेण साक्षात्कृता। पुनः किं ? 'अवार्या' केनाऽपि प्रतिपन्थिना वारयितुमशक्या । पुनः किं० ? अरीणां समूह आरस्तस्य य आजि:-संग्रामः तस्य यो तापस्तमपहन्तिअपनयति या सा तथा। पुनः किं० ? अनेके लाभा:-श्रुतातिशयविशेषरूपा येषां गणधरादीनां तैः 'आस्थिता' अङ्गीकृता, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001122
Book TitleAendra Stuti Chaturvinshika Sah Swo Vivaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1984
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy