SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्राक्कथनम् ‘कक्खट' इति पाठ एवं ग्रन्थकृतोऽभिमतः शुद्धश्चेति स एवात्रादरणीयः । एवमाकृतिसारूप्यादिकारणैर्बहूनामक्षराणां हस्तलिखितनयचक्रवृत्तौ परिवर्तनं सञ्जातम् । ईदृशानि अन्योन्यं परिवर्तितानि कानिचिदक्षराण्यत्रोदाहियन्ते— ण्त्र = व त्व = ड्ढ त = न त्स = ञ् त = व द = ह तत्र = तन्न दि = भि तृ = त्रि दि = पि श = त्रा त्त = तृ द्य = ड्य स = भ त्त = कृ ध = व स्त = सू त्त = न्त धा = क • च = श्च त्थ = च्छ न = ण IT = त्व = च ननु = नतु IT = य एतलिपि परिवर्तनं मुहुर्मुहुः सूक्ष्मैक्षिकया विचिन्त्य विविच्य च यथास्थानं यथासम्भवं शुद्धः पाठ अतोऽस्माभिः । भोटग्रन्थानामपि शुद्धपाठनिर्णयेऽस्माभिर्व्यधायि बहुषु स्थानेषूपयोगः । तथाहि - पृ० ९३ पं० २३ इत्यत्र भा० प्रतौ ' तदंशदृष्टौ ' इति पाठो दृश्यते, य० प्रतिषु तु ' तददृष्टौ ' इति पाठः । भोटभाषान्तरसंवादादर्थसङ्गतेश्च ' तदंशदृष्टौ ' इति पाठ एवं शुद्धत्वात् तत्रास्माभिरादृतः, दृश्यतां भोटपरिशिष्टे टिपृ० १३६ । एवं पृ० ३१४ पं० ४ पृ० ३२१ पं० १६ इत्यत्र च मुद्रितोऽशुद्धः पाठो नयचक्रमुद्रणानन्तरं समासादितभोटग्रन्थसाहाय्येन टिपृ० १३८ पं० ६ टिपृ० १४० पं० ८ इत्यत्र चास्मभिः शुद्धीकृतः । यत्र कश्चित् पाठः खण्डित इत्यस्माकं मतं तत्र खण्डितपाठपूरणाय [ ] एतादृशकोष्ठकान्तरस्मत्सम्भावितः पाठो निवेशितः । यत्र च सर्वासु प्रतिष्वशुद्धः पाठस्तत्स्थाने शुद्धपाठं च सम्यक् कल्पयितुं वयमसमर्थास्तत्रा शुद्ध पाठस्याग्रे ( ? ) एतादृशं चिह्नं स्थापितमस्माभिः, यथा पृ० २५७ पं० १४ इत्यत्र । यत्र त्वशुद्धपाठस्थाने कश्चिच्छुद्धः पाठोऽस्माभिः सम्भावितो न तु निश्चितस्तत्राशुद्धपाठस्याग्रे १ ) एतादृशकोष्ठकान्तरस्मत्सम्भावितः पाठोऽस्माभिर्निवेशितः, यथा पृ० १६ टि० १० इत्यादौ । यंत्र चान्यथापि पाठः कल्पयितुं शक्यते तत्र वैकल्पिकी पाठसम्भावनापि टिप्पणेषु तत्र तत्रास्माभिः प्रदर्शिता, यथा पृ० १४ टि०९, पृ० १८ टि० १३, पृ० ७२ टि० ८ इत्यादौ । ( S = अ S = इ ए = प = य क = वा Jain Education International क्र = न रक = क्ख ग = म च = व ज्ञ = ज्र ट = ङ नु = उ नु = तु - न = न्न प = य पृत = वृत्त प्य = ण्य ब = व भ = त भू = चु म = स ३७ म = न रु = भ ग्रे = र्ग ल = त नयचक्रवृत्तौ ग्रन्थान्तराणां प्राचीना विशिष्टपाठाः मल्लवादि- सिंह सूरिक्षमाश्रमणानामतिप्राचीनत्वात् तेषां समक्षं वेदोपनिषत् -सांख्यादिदर्शनशास्त्रपाणिनीयशब्दानुशासन सूत्र धातु- पातञ्जलमहाभाष्य- जैनागमादिग्रन्थानां प्राचीना पाठपरम्परासीदिति निर्विवादमेव । कालक्रमेण ग्रन्थेषु अन्यान्यलेखकहस्तैः पाठभेदा जायन्ते वर्धन्ते चेति विदितमेव विदुषाम् । अतो नयचक्रवृत्तावुद्धृतेषु वेदादिपाठेषु सम्प्रत्युपलभ्यमानपाठेभ्यो न्यूनाधिकभेददर्शनेऽपि अत्रोद्धृताः प्राचीन For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy