SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सात्यस्य असत्कार्यवादित्वापादनम् ] द्वादशारं नयचक्रम् २९३ असत्कार्याः शब्दादयः, कारणत्वात्, अन्यगुणात्मक सुखप्रवृत्त्यादिवत् इतरानुपकृताविद्यमानप्रकाशादित्रयसुखादिकारणवत् । प्रत्येकमितरानुपकृतविद्यमानप्रकाशादित्रयस्वकार्या वा सुखादयः, कारणत्वात्, शब्दादिवत् तन्त्वादिवद्वा । अर्थ प्रकाशात्मकयोरेव रजस्तमसोः शब्दभावाय व्यवतिष्ठते सत्त्वं तत एकात्मकैककारणत्वम्, तच्च नेष्यते । 5 ततो यथैव कारणे कार्यस्य सत्त्वाद् घटेनैव घटः क्रियते तदात्मव्यक्तिप्रति-: [ ] इत्युक्तत्वात् । तत्सहचरितं च घटादि वस्तु पूर्वस्मिन् निरुद्वे पाश्चात्यस्य पाश्चात्यस्योत्पादाभ्युपगमाद् निर्मूलोत्पत्त्येवेति उभयं दृष्टान्तः साध्यं चोभयम्, तत्साधर्म्यादिदमपि सत्त्वादिप्रकाशादिकार्यं शब्दादि साङ्ख्यमतमिति योज्यम् । तस्माद् निर्मूलोत्पत्तिसाधर्म्याद् बौद्धा सत्कार्यवादतुल्यतेति । एवं प्रकाशाद्यसत्कार्यत्वे सिद्धे सर्वव्यक्तासत्कार्यत्वसाधनम् - असत्कार्याः शब्दादयः कारणत्वात्, 10 यद् यत् कारणं तत् तदसत्कार्यं दृष्टम्, अन्यगुणात्मक सुखप्रवृत्त्यादिवत्, अन्यो गुणः सत्त्वाद् रजः, तस्यात्मा सुखम्, तच्च स्वयं साम्यावस्थायामेकप्रकाशात्मकार्यमपि सद् जात्यन्तररजस्कार्यप्रवृत्त्यात्मकमारम्भावस्थायामि ज्यात्मकशब्दाद्यात्मव्यवस्थानवचनात् तथा नियमात्मकमपि आदिग्रहणात् । अतः सुखं सत्त्वगुणं प्रागसत्प्रवृत्तिनियमकार्यं पश्चात् तत्कार्यं दृष्टं कारणं च तद्वच्छब्दादयोऽसत्कार्याः कारणतां च विभ्रतीति, एवमन्यगुणदुःखप्रकाशनियमवत् अन्यगुणमोह प्रकाशप्रवृत्तिवदित्येकैकमेव दृष्टान्तं कृत्वा योज्यम् । 15 एतस्यार्थस्य स्फुटीकरणार्थमाह- इतरानुपकृता विद्यमानप्रकाशादित्रय सुखादिकारणवदिति, इतरेण रजसा तमसा चानुपकृतौ प्रागसन्तौ प्रवृत्तिनियमौ पश्चात् तदुपकारजनितौ सुखे कारणे दृष्टौ, आदिग्रहणादेवं दुःखे प्रकाशनियमावितरानुपकृतौ प्रागसन्तौ * पश्चात् तदुपकारजौ तथा मोहेऽपीति । यद्येवं नेष्यते ततः प्रत्येकमितरानुपकृतविद्यमानप्रकाशादित्रयस्वकार्या वा सुखादयः, कारणत्वात् शब्दादि - २१५-२ वत् तन्त्वादिवद्वेति, 'स्व' शब्दादेकस्यैव सत्त्वगुणस्य त्रयोऽपि प्रकाशादय आत्मीया एव कार्यास्तथे- 20 तरयोश्चेति पुरुषादिवाद एवैष संज्ञामात्रविप्रतिपत्तेरिति । एवं तावदप्रकाशात्मकयो रजस्तमसोः शब्दात्मना व्यवतिष्ठमानेन तत्प्रख्यातिना सत्त्वेन तदात्मप्रख्यापने दोषा उक्ताः । 3 २१५-१ यदि चैवं सत्कार्यवादस्योत्खातमूलत्वप्रसङ्गभयादसत्कार्यवादस्य प्रतिष्ठितमूलत्वप्रसङ्गभयाच्च नेष्यतेऽयं विकल्पः 'अप्रकाशात्मकयो:' इति ततः 'प्रकाशात्मकयो:' इत्यस्तु तत्रापि च दोषं वक्तुकाम इदमाह - अथ प्रकाशात्मकयोरित्यादि यावन्नेष्यत इति गतार्थम् । ततो यथैवेत्यादि दृष्टान्तमेव तावत् प्रक्रियाप्रसिद्धमुपवर्णयति । कारणे कार्यस्य सत्त्वाद् घटेनैव घटः क्रियते इति, मृत्पिण्डघटेनोग्रीव कुण्डलौष्ठपृथुकुक्षिबुघ्नादिघटः क्रियते प्रकाश्यते, करोतेः प्रकाशार्थत्वात्, यथा पृष्ठं कुरु पादौ कुरु, तच्च करणं 'विमलीकरणं प्रकाशनमित्यर्थः, कारणे कार्यस्य सत एव प्रकाशनात् सर्पस्फटाटोप मुकुलत्ववद् दीर्घकुण्डलकीभाववच्च, तत्र यथा सर्पेणैव सर्पः क्रियते तथेहापि १ दृश्यतां पृ० २८८ पं० ३, पृ० २९५ पं० ९ ॥ २ त्येवेत् पुरुषदृष्टान्तः य० ॥ ३. मक्का (त्मकका ? ) - र्यमपि भा० ॥ ४ * * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ५ चेवं प्र० ॥ ६ मयोः प्र० । दृश्यतां पृ० २९५ दि० ३ ॥ ७ थिकुक्षि भा० ॥ ८ दृश्यतां पृ० १७१ टि० ९ ॥ ९ भावच भा० । 'भावत्व य० ॥ Jain Education International For Private & Personal Use Only 25 www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy