SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ५७८ अनुयोगद्वारसूत्रम् [ सू० ५२५] यस्यां परसमय आख्यायत इत्यादि । यथा सूत्रकृदङ्गप्रथमाध्ययने - संति पंच महब्भूया, इहमेगेसि आहिया । पुढवी आऊ तेऊ वाऊ आगासपंचमा ॥१॥ एते पंच महब्भूया, तेभो एगो त्ति आहिया । अह तेसि विणासेणं, विणासो होइ देहिणो ॥२॥ [१।१।७-८] इत्यादि । 5 अस्य च श्लोकद्वयस्य सूत्रकृढत्तिकारलिखित एवायं भावार्थ:- एकेषां नास्तिकानां स्वकीयाप्तेन आहितानि आख्यातानि इह लोके सन्ति विद्यन्ते पञ्च समस्तलोकव्यापकत्वान्महाभूतानि, तान्येवाह- पृथिवीत्यादि । पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह- एते पंचेत्यादि, एतानि अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि तेभो त्ति तेभ्य: कायाकारपरिणतेभ्यः एकः कश्चिच्चिद्रूपो 10 भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्त: परलोकयायीत्येवं ते आहिय त्ति आख्यातवन्तः । अथ तेषां भूतानां विनाशेन देहिन: जीवस्य विनाशो भवति, तदव्यतिरिक्तत्वादेवेति । एवं लोकायतमतप्रतिपादनपरत्वात् परसमयवक्तव्यतेयमुच्यते, आख्यायते इत्यादिपदानां तु विभाग: पूर्वोक्तानुसारेण स्वबुद्ध्या कार्यः । सेयं परसमयवक्तव्यता। स्वसमय-परसमयवक्तव्यता पुनर्यत्र स्वसमय: परसमयश्च आख्यायते, 15 यथा आगारमावसंता वा, आरण्णा वा वि पव्वया । .. इदं दरिसणमावन्ना, सव्वदुक्खा विमुच्चती ॥१॥ [सूत्रकृ० १।१।१९] त्यादि। आगारं गृहं तत्राऽऽवसन्तो गृहस्था इत्यर्थः, आरण्या वा तापसादयः, पव्वय त्ति प्रव्रजिताश्च शाक्यादय:, इदम् अस्मदीयं दर्शनं मतम् आपन्ना: आश्रिता: सर्वदुःखेभ्यो 20 विमुच्यन्त इति । एवं यदा साडयादय: प्रतिपादयन्ति तदेयं परसमयवक्तव्यता, यदा तु जैनास्तदा स्वसमयवक्तव्यता, ततश्चासौ स्वसमय-परसमयवक्तव्यतोच्यते । [सू० ५२५] [१] इयाणिं को णओ कं वत्तव्वयमिच्छति ? तत्थ णेगम-ववहारा तिविहं वत्तव्वयं इच्छंति । तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं । 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy