SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ५९ चतुर्थ परिशिष्टम् गच्छपर्यन्ताः, परस्परसमाहता: । राशयस्तद्धि विज्ञेयं, विकल्पगणिते फलम् ||१|| ” इह चासम्मोहाय षट्पदाङ्गीकारतः प्रस्तारानयनोपाय उच्यते तत्र चैकादीनि षडन्तानि षट् पदानि स्थाप्यन्ते तानि चान्योऽन्यं गुण्यन्ते, ततश्च जातानि सप्त शतानि विंशत्युत्तराणि तेषां चान्त्येन षट्केन भागहारः, तत्र लब्धं विंशत्युत्तरं शतम्, १२०, इयन्तः षष्ठपङ्क्तौ षट्का न्यस्यन्ते, तदधस्तावन्त एव क्रमेण पञ्चकचतुष्ककत्रिकद्विकैककाः स्थाप्या:, इत्थं जातानि षष्ठपङ्क्तौ सप्त शतानि विंशत्युत्तराणि । ततो विंशत्युत्तरशतस्य पञ्चकेन भागहारः, तत्र च लब्धा चतुर्विंशतिः २४, तावत्सङ्ख्याः पञ्चमपङ्क्तौ क्रमेण पञ्चकचतुष्कत्रिकद्विकैकका न्यस्याः, जातं विंशत्युत्तरं शतम्, तस्य चाधस्तादग्रे तनपङ्क्ति तस्थमङ्कमपहाय यथामहत्सङ्ख्यमङ्कविन्यास:, तत्राग्रेतनपङ्क्तिस्थः पञ्चकस्तत्परित्यागतश्च सर्वबृहत्सङ्ख्यः षट्कश्चतुर्विंशतिवारानधः स्थाप्यते, ततस्त्रिकापेक्षया चतुष्को द्विकापेक्षया च त्रिक एककापेक्षया च द्विको बृहत्सङ्ख्यः, तत एककश्च तावत एव वारान् न्यसनीयः, जातं पुनर्विंशत्युत्तरं शतम्, एवमग्रेतनपङ्क्तिस्थचतुष्कत्रिकद्विकैकपरिहारतस्तथैव तावन्नेयं यावत्पञ्चमपङ्क्तावपि पूर्णानि सप्त शतानि विंशत्युत्तराणि । ततश्चतुर्विंशतेश्चतुष्केण भागहारः, तत्र लब्धाः षट् ६, ततश्चतुर्थपङ्क्तौ एवाधोऽधश्चतुष्क त्रिकद्विकै ककाः स्थाप्याः, यावज्जाता चतुर्विंशतिः, ततश्चाग्रेतनपङ्क्तिस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पङ्क्तिः पूरणीया । भूयः षट्कस्य त्रिकेण भागहार:, ततश्च लब्धो द्विकः, ततस्तृतीयपङ्क्तौ द्वौ त्रिकौ पुनर्द्वावेव द्विकौ भूय एककौ च द्वावधः स्थापनीयौ, अधस्ताच्च पुरः स्थिताङ्कत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणैव पङ्क्तिः पूरणीया । षड्भागहारलब्धस्य द्विकस्य विभजने लब्ध एक:, ततो द्वितीयपङ्क्तौ द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्थाङ्कपरिहारादिन्यायतस्तावत्सङ्ख्यैव द्वितीयपङ्क्तिः कार्या । प्रथमपङ्क्तिस्तु पुरस्थाङ्कपरिहारतः पूरणीया । उक्तं च - गणितेऽन्त्यविभक्ते तु लब्धं शेषैर्विभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥” इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु षट्कापेक्षया पञ्चकादयः, आदाविति च षष्ठपङ्क्तौ, अन्त इति च पञ्चमादिपङ्क्ताविति । उक्ताऽऽनुपूर्वी ॥” इति शान्तिसूरिविरचितायाम् उत्तराध्ययनबृहट्टीकायाम् १।२८ || तावन्त [ हे० १३५-१३८ ] १. क्रमपरि खंसं० विना ॥ [ हे० १३९ - १५१ ] १. प्रदेशिकद्वये जे१, २ खंमू० पा१ । प्रदेशकद्वये मां०॥ [ हे० १५२ ] १. एगं दव्वं जे१, खंमू० ॥ २. जभागे पा१, जेमू२ ॥ ३. प्रतीयते खंमू० जे१, २ पा१ ॥ ४. ततोऽचित्तमहा पा१, जेसं २ ॥ ५ ( प्रतिपाद्येत ? ) ॥ ६. गवर्त्तित्वा पा१ ॥ - [ हे० १५४ ] १. एगं दव्वं खं०, जे१, २ पा१ ॥ २. एकद्विप्रदेशाव पा१ ॥ ३. सर्वभावा खंमू० जेमू१, २ । सर्वदैव भावा पा१, जेसं२ ॥ न्योंतर पा१ ॥ २. प्रतिभ्रमणे खं० ॥ [ हे० १५५ ] १. [ हे० १५६ ] १. न्यान्यपि चतु पा१ खंसं० ॥ २. द्विकयोगा जे१, २ पा१, २ ॥ ३. त्रिकयोगानां पा२ ॥ ४. ष्कयोगा जे१, २ पा१, २ ॥ ५. कयोग जेमू१, २ खंमू० पा१, २ ॥ ६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy