SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३१२ नाभेरुत्थितोऽविकारी स्वर आभोगतोऽनाभोगतो वा यदत्र जिह्वादिस्थानं प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमत: स्वरस्थानमुच्यते। तत्र सजमित्यादिश्लोकद्वयं सुगमम् । नवरं चकारोऽवधारणे, षड्जमेव प्रथमस्वरलक्षणं ब्रूयात् । कयेत्याह - अग्रभूता जिह्वा अग्रजिह्वा, जिह्वाग्रमित्यर्थः, तया। इह यद्यपिषड्जभणने स्थानान्तराण्यपि कण्ठादीनि 5 व्याप्रियन्ते अग्रजिह्वा च स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुव्यापारवतीति कृत्वा तया तमेव ब्रूयादित्युक्तम् । इदमत्र हृदयम् - षड्जस्वरोऽग्रजिह्वां प्राप्य विशिष्टां व्यक्तिमासादयत्यतस्तदपेक्षया सा स्वरस्थानमुच्यते, एवमन्यत्रापि भावना कार्या । उरो वक्षस्तेन ऋषभं स्वरम्, ब्रूयादिति सर्वत्र संबध्यते । कंठुग्गएणं ति कण्ठादुगमनमुद्गतिः स्वरनिष्पत्तिहेतुभूता क्रिया, तेन कण्ठोद्गतेन गान्धारम्। जिह्वाया मध्यो भागो मध्यजिह्वा 10 तया मध्यमम् । तथा दन्ताश्चौष्ठौ च दन्तोष्ठम्, तेन धैवतम्, रैवतं वेति, भ्रूक्षेपावष्टम्भेन निषादमिति। इतऊर्ध्वंसर्वं निगदसिद्धमेव।नवरंजीवनिस्सियत्तिजीवाश्रिता:जीवेभ्यो वा निसृता निर्गताः । सज रवतीत्यादिश्लोकः, रवति नदति । गवेलग त्ति गावश्च एलकाश्च ऊरणका गवेलकाः, अथवा गवेलका ऊरणका एव । अह कुसुमेत्यादि, अथेति विशेषणार्थः, 15 विशेषणार्थता चैवम्- यथागवेलका अविशेषेणमध्यमस्वरंनदन्ति न तथा पञ्चमं कोकिलः, अपितु कुसुमसंभवेकाले त्तिवनस्पतिषु बाहुल्येन कुसुमानां मल्लिका-पाटलादीनांसम्भवो यस्मिन् काले स तथा, तस्मिन्, मधुमास इत्यर्थः। अजीवनिस्सियत्ति तथैव, नवरमजीवेष्वपिमृदङ्गादिषुजीवव्यापारोत्थापिता एवामी मन्तव्याः, अपरं च षड्जादीनां मृदङ्गादिषु यद्यपि नाशाकण्ठाद्युत्पन्नत्वलक्षणो व्युत्पत्त्यर्थो 20 नघटते तथापि सादृश्यात् तद्भावोऽवगन्तव्यः। सजमित्यादिश्लोकद्वयम्, गोमुखी काहला यस्या मुखे गोशृङ्गादि वस्तु दीयत इति। चतुर्भिश्चरणैः प्रतिष्ठानम् अवस्थानं भुवियस्या: सा गोधाचर्मावनद्धा गोधिका वाद्यविशेषो दरिकेत्यपरनाम्ना प्रसिद्धा । आडम्बर: पटहः । सप्तममिति निषादमित्यर्थः। एएसि णमित्यादि । एतेषां सप्तानां स्वराणां प्रत्येकं लक्षणस्य विभिन्नत्वात् सप्त 25 स्वरलक्षणानि यथास्वं फलप्राप्त्यव्यभिचारीणि स्वरतत्त्वानि भवन्ति । तान्येव फलत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy